________________
२२
श्रीप्रमेयरत्नकोषः। योगात् । ततश्च नित्यस्यानुपकर्तव्यस्वभावतया नित्यान्य प्युपकारकाणि न युज्यन्ते, किं पुनरनित्यानि क्रमेणोपका रकरणस्वभावानि नित्यस्वभावाभिभावुकानि । तथाहि ।
सहकारिभिरुपकारस्तस्य नित्यस्य विधीयमानः किं व्यति5 रित्तो विधीयतेऽव्यतिरिक्तो वा । न तावव्यतिरिक्तः, व्य. तिरिक्ते ह्युपकारे भावस्यानुपकृतत्वान्न तदुपकारकरणार्थक्रिया । ततः स्यात्तत्संबन्धित्वेन । “ उपकारस्य करणादुपकारेण संबन्धादर्थक्रिया ततो भविष्यति " इत्यपि वक्तुं
न शक्यते, यतो व्यतिरिक्तस्य संबन्धः कार्यकारणभाव 10 एव । स च नित्यस्योपकारेण नास्ति, उपकारस्य स्वकार
णेनैव जनितत्वात् । न च जनितस्यापि जननं, अतिप्रसङ्गात् । तस्मादव्यतिरिक्त एवोपकारोऽभ्युपगन्तव्यः। अव्यतिरिक्त चोपकारेऽनित्यैः सहकारिभिः संजनिते नित्यस्याप्यनित्यस्वभावापत्तेर्नित्यस्वभावाभावो भवेत् । नापि 15 युगपत्, तथात्वे हि क्रियाविरतावभावत्वप्रसङ्गात् । तन्न नित्यं वस्त्वर्थक्रियासमर्थमिति ॥
नाप्यनित्यं, यतोऽनित्यमप्यर्थक्रियां कुर्वत्क्रमेण कुर्यात् , यौगपधेन वा । न तावत्क्रमण, यतः क्रमो ह्येकक्रियाकरणानन्तरं द्वितीयकरणं, तच्चोत्पत्तिसमयसमनन्तरध्वस्ते न 20 युज्यते, एकस्यैव कर्तुरेककरणानन्तरं द्वितीयं करोतीति व्यवहारदर्शनात् , न हि भिन्नस्य । तथाहि । भेदे व्यवहारोऽन्यथा दृश्यते, इदमनेनाद्यं निष्पादितं, इदं द्वितीयमनेनेति, क्षणिकत्वेनैकत्वं वस्तुनः समुत्पत्ति
समनन्तरमेव ध्वंसः स्यात् । विनष्टस्य चार्थक्रियापि 25 न संभवति, किं पुनरेककरणानन्तरं द्वितीयकरणं येन क्रमेण तत्रार्थक्रिया स्यात् । अथैकस्यैककरणानन्तरं द्वितीयकरणमिति भ्रान्तोऽयं व्यवहारः सदृशापरापरोत्पत्तिद
1 B omits नित्यखभावाभि. 2 A ध्वंसात्.