________________
श्रीप्रमेयरत्नकोषः। तावदेकान्तनित्यं वस्त्विति प्रतिपन्नाः, तैरनित्यत्वं वस्तुनो नाभ्युपगतम् । येऽप्येकान्तानित्यमित्यभ्युपगताः, तैर्नित्यत्वं न प्रतिपन्नम् । न चैतद्युज्यते, यतो वस्तून्यर्थक्रियार्थिभिरर्थक्रियासमर्थान्यभ्युपगतानि । न चैकान्तनित्यमनित्यं वा वस्त्वर्थक्रियासमर्थ, यतोऽर्थक्रियां कुर्वन्पदार्थः क्रमेण 5 वा कुर्याद्योगपद्येन वा । क्रमेणापि कुर्वन्सहकारिकारणसापेक्षो' निरपेक्षो वा । तत्र न तावन्नित्यस्तनिरपेक्षः क्रमेणार्थक्रियां करोति, यतः क्रमेणार्थक्रियाकरणमेकक्रियानन्तरं क्रियान्तरकरणम् । तच्च नित्यस्यैकस्वभावत्वान्न युज्यते, यतो यस्मिन् क्षणे 10 प्रथमक्रियाकरणस्वभावो भावानां, न तस्मिन्द्वितीयादिक्षणकर्तव्यक्रियास्वभावः, तत्स्वभावत्वे हि प्रथमक्षणवर्तिक्रियाकरणवद्वितीयादिक्षणवर्तिक्रियाप्रसङ्गात् । तथा च युगपत्समस्तक्रियाणां करणाद्योगपद्यपक्ष एव कक्षीकृतः। तत्र च युगपत्सकलक्रियाणां करणादुत्तरकालमनर्थक्रियाकारि-15 त्वादवस्तुत्वप्रसङ्गः। नापि सहकारिकारणसापेक्षः क्रमेण नित्योऽर्थोऽर्थक्रियां करोति, यतः सहकारिकारणान्यपि नित्यानि स्युरनित्यानि वा। नित्यान्यपि क्रमेणोपकरणीयोपकरणस्वभावानि युगपद्वा । अनित्यान्यपि किं क्रमेणोपकरणस्वभावान्यन्यथा वा । न तावन्नित्यानि क्रमेणोपकर-20 णीयोपकरणस्वभावानि, उपकार्यस्योपकारकस्य च नित्यतयैकस्वभावत्वात्क्रमकरणस्य च द्विस्वभावनियतत्वात् । नापि युगपन्नित्यान्यन्योपकारकरणस्वभावानि, युगपदुपकारकरणे क्रियाविरताववस्तुत्वप्रसङ्गात् । नाप्यनित्यानि क्रमेणोपकारकरणस्वभावानि, यतः स उपकार उपकर्तव्य-25 स्वभावानभिभावुकोऽभ्युपगन्तव्यः, अन्यथोपकारकत्वा
1A °कारणस्य सा° 2 A नोऽपि 3 C करणप्रवणानि 4 A उपकारक