________________
श्रीप्रमेयरत्नकोषः।
तीतानागतपर्यायाणां प्राधान्यापेक्षया साक्षात्तदभिधायकशब्दद्वयप्रयोगात् “ स्यात्सन्नसंश्च घटः ” इति, वस्तुनोऽभिन्नस्यापि बुद्ध्या प्रविभागमाश्रित्य प्रयोगकरणात् समुच्चयात्मकवद्वत्तसद्भावासद्भावपर्यायाणां विवक्षितत्वात् । 5 पञ्चमविकल्पः पुनः स्वद्रव्याद्यपेक्षयां सद्भावपर्यायापेक्षया वा विवक्षितः । स्वपरद्रव्यापेक्षया सद्भावासद्भावपर्यायाणां चैकशब्देन युगपद्वाच्यत्वेने विवक्षितश्च यदा भवति भावः, तदा " स्यात्सदवक्तव्यो घटः" इति प्रयुज्यते । षष्ठभङ्गकः पुनः परद्रव्याद्यपेक्षयासद्भावपर्यायापेक्षया वा 10 यथा वाच्यत्वेन विवक्षितो भवति भावः, तथा सद्भावास
द्भावपर्यायाश्च युगपद्धृत्ता वाच्यत्वेनेष्टाः, तदा " स्यादसदवक्तव्यो घटः" इति प्रयुज्यते । सप्तमभङ्गकस्तु सद्भावविवक्षायां सत्यामेकस्य द्वितीयस्य परद्रव्याद्यसद्भावपर्यायविवक्षायां सत्यां तृतीयस्य चोभयपर्यायाणां युगपद्वत्तीनां 15 विवक्षायां सत्यां “स्यात्सदसदवक्तव्यो घटः" इति निवर्तते,
अनेकबुद्धिबुद्धत्वात् ,द्रव्यपर्यायेषु सत्सु आत्मिका यतोभवति बुद्धिः। तथाहि । सद्रूपामसद्रूपामवक्तव्यरूपां च बुद्धिं भिन्नां विक्रमवतीमिवाश्रित्याभिन्नैका क्रमवस्तुरूपा वाक्या
थेबुद्धिर्भवति। तस्माद्भेदक्रमप्रतिभासविज्ञानहेतुत्वाद्भागास्ते 20 भवन्त्यविभक्तस्यैकस्यापि वस्तुनः । एवं चानेकस्वभावेऽर्थे
सति वक्तुरिच्छावशात्कदाचित्केंनचिद्रूपेण वक्तुमिष्यते । विवक्षायत्ता च वचसः सकलादेशता विकलादेशता च द्रष्ट
व्या । तत्रायेषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते . " स्यादस्ति ", " स्यान्नास्ति," " स्यादवक्तव्यः" इति। 25 चतुर्थविकल्पादिषु पुनर्विकलीकृतं खण्डश आदिश्यते । तद्यथा । " स्यादस्ति च नास्ति च ", " स्यादस्ति चावकव्यश्च", " स्यान्नास्ति चावक्तव्यश्च", " स्यादस्ति
1 C सद्व्या
2 A omits युगपद् 3 BC विकलमेव