________________
श्रीप्रमेयरनकोषः। न्तसंशयाद्यर्थवृत्तिः, तस्य चानेकान्तवादोद्योतनमेवार्थोऽत्रविवक्षितः षण्णां मध्ये विरुद्धधर्मापेक्षया चैकान्तासत्त्वप्रतिपादकवादिमतप्रतिषेधार्थ प्रोच्यते । “स्यादसन् घटः" इति स्वपरपर्यायान्यतरैकधर्मसंबन्धार्पणात्कालभेदेनोक्तम् । अधुना युगपद्विरुद्धधर्मद्वयसंबन्धार्पितस्य च वस्तुरूप- 5 स्याभिधायकः कीदृशो वाक्यप्रयोगो भवतीत्युच्यते । न खलु तादृशः शब्दोऽस्ति यस्तादृशीं विवक्षां पूरयेत्, यतो ऽर्थान्तरवृत्तैः पर्यायैरवर्तमानमननुभवद्विवक्षितान् पर्यायान्द्रव्यं ब्रवीमीत्येका विवक्षा । अपरा तु निजैः पर्यायैः स्वात्मवृत्तैर्वर्तमानमनुभवत्स्वान्पर्यायान्द्रव्यं प्रतिपादया-10 मीत्येवंरूपा । अनयोर्विवक्षयोः परस्परविलक्षणत्वाद्विरुद्धत्वाच्च द्वाभ्यामपि युगपदादेशे पुरुषस्यैकत्र द्रव्ये नास्ति संभवो वचनविशेषातीतत्वाच्चावक्तव्यत्वं, तथाभूतस्यार्थस्याभावात्तथारूपवाचकाभावाच्च । न हि विरुद्धयोधर्मयोरेकस्मिन्नधिकरणे काले वास्ति संभवः । ततश्चार्थ-15 स्य विरुद्धधर्मसंसृष्टस्याभावाच्छब्दस्य तथाभूतार्थवाचकस्यासत्त्वात् " स्यादवक्तव्यः” इत्युच्यते, स्याच्छब्दस्यैकान्तावक्तव्यतापक्षनिराकरणार्थत्वात् , अवक्तव्यादिशब्दैः प्रोच्यमानत्वात् । न हि सच्छब्दः सदसत्त्वे यौगपद्येन ब्रवीति । यदि ब्रूयात् , तर्हि स्वार्थवदसत्त्वमपि सत्कुर्यात् । 20 तथासच्छब्दोऽपि नासत्सत्त्वे युगपद्रवीति । यदि ब्रूयात्, तदा स्वार्थवत्सदप्यसत्कुर्यात् । विशेषशब्दत्वाच्च “ सत्" इत्युक्ते न “असत्" अभिधीयते। न च "असत्" इत्युक्ते "सत्" इत्युक्तं भवति, शब्दे शक्तिस्वभावात् । सद्भावासभावपर्यायाणां सहभावार्पणमाश्रित्यातीतानागतपर्यायान्वा 25 स्वीकृत्यैकशब्दवाच्यत्वेन तृतीयो विकल्पः । चतुर्थविकल्पः पुनरुभयप्रधानः स्वपरद्रव्यादिवृत्तिं समाश्रित्य वर्तमाना
1 A 'मानमनुभव