________________
श्रीप्रमेयरत्नकोषः । करितस्य वस्तुस्तोमस्याधिगम्यमानत्वात् । नापि प्रकरणसमा, तल्लक्षणविकलत्वात् । नापि विशेषणासिद्धत्वं हेतोदेषणमुद्भावनीयं, विशेषणासिद्धत्वं हि तदा स्याद्यदि स्वपरद्रव्याद्यपेक्षाभावेऽपि सदसदादयो धर्मा भवेयुः, यावता तदभावे न भवन्ति । यदि च स्युः, तदा यथा स्वद्र-5 व्याद्यपेक्षया सत्त्वं तथा परद्रव्याद्यपेक्षयापि सत्त्वं, तथा च तदेव घटादिवस्तु सर्वत्र प्राप्नोति । ततश्च सर्वपदार्थाद्वैतापत्तिलक्षणं दूषणमापद्येत । यथा परद्रव्यापेक्षयासत्त्वं, तथा, यदि स्वद्रव्यापेक्षयाप्यसत्त्वं, ततः सर्वपदार्थशून्य. तापत्तिप्रसङ्गः, ततश्च सकललोकव्यवहारोच्छेदः प्राप्नोति । 10 दृश्यते चायमविगानेन प्रतिनियतरूपपदार्थापेक्षया व्यवहारः प्रवर्तमानः सर्वेषां भेदव्यवहारवादिनाम् । अतोऽसावनेन विशेषणेन व्यवस्थाप्यते । उक्तं च।
सर्वमस्ति स्वरूपेण पररूपेण नास्ति च ।
अन्यथा सर्वसत्त्वं स्यात्स्वरूपस्याप्यसंभवः॥ 15 ततः कथं विशेषणासिद्धत्वं दोषः । ततः सकलदूषणरहितादतोऽनुमानाद्भवति स्वपरद्रव्यक्षेत्रकालभावाद्यपेक्षया सदसदाद्यनेकधर्मपरिकरितवस्तुसिद्धिः॥
तत्र घटस्य कः स्वः कश्च पर इति । घटज्ञानाभिधानप्रवृत्तिलिङ्गः स्वः, तद्विपरीतः परः पटादिः । स्वपरात्मो- 20 पादानापोहनव्यवस्थापाद्यं हि वस्तुनो वस्तुत्वम् । यदि स्वोपादानपरिणतौ पटाद्यात्मव्यावृत्तिर्न स्यात्, सर्वात्मना घटः स्यात् । यदि च परात्मव्यावृत्तौ स्वात्मोपादानपरिणतिरपि न स्यात्, खरविषाणादिवदवस्त्वेव स्याद्धटः। अथवा नामस्थापनाद्रव्यभावघटेषु यो विवक्षितः स स्वः, 25 इतरः पुनः परः । तत्र विवक्षितात्मना घटः, नेतरात्मना।
1B °पेक्षाया अभावेऽपि 2 A सदादयो 3 A premits ते 4 B premits तथा