________________
श्रीप्रमेयरत्नकोषः ।
परिकरितस्य सर्वस्य वस्तुनो वीक्ष्यमाणत्वात् । अनुमानं च प्रमाणमुच्यते । यद्यथा प्रतिभासतेऽबाध्यमाने ज्ञाने तत्तथैवाभ्युपगन्तव्यं, यथा नीलं नीलरूपतया स्वपरद्रव्यक्षेत्रकालभावापेक्षया । सदसदाद्यनेकधर्मपरिकरितं च 5 प्रतिभासतेऽबाध्यमाने ज्ञाने सर्वमेव वस्तुजातम् । तस्मातथैवाभ्युपगन्तव्यमिति । न चात्रासिद्धतादिदूषणमुद्भावनीयम् । असिद्धत्वं हि हेतोः सर्वथा - सत्त्वप्रतिभासनेन वा स्यात्, असत्त्वप्रतिभासनेन वा स्यात् उभयाभावप्रतिभासनेन वा । न तावदाद्यः पक्षः कक्षीकरणीयः । 10 सर्वथा सत्त्वप्रतिभासनेन सकलवस्तुस्वरूपसंकीर्णघटादिपदार्थप्रतिभासः स्यात् । न चैतद्दृष्टमिष्टं वा । अथ सर्वथा - सत्त्वप्रतिभासनेनासिद्धत्वं साधनस्योच्यते; तर्हि स्वरूपस्यापि सत्त्वाभावः प्राप्नोति, सर्वथाभावस्वरूपेणाभ्युपगमात् । अथ तृतीयविकल्पाङ्गीकरणे नासिद्धत्वं हेतोः 15 प्रोच्यते; तर्ह्येकप्रतिषेधस्यापरविधिनान्तरीयकत्वात्सर्वथासत्त्वमसत्त्वं वापद्येत । तत्र च पक्षे भणितमेव दूषणं प्राक् । कथंचित्पक्षे पुनः सिद्धमेव साधनं, तदर्थमेव यत्यमानत्वात् । नाप्ययं विरुद्ध हेतुः, यतो विरुद्धार्थसाधनाद्विरुद्धो भवति । न च प्रमाणप्रतिभातं वस्तु तथा भवति । यदि 20 च स्यात्, तदा प्रमाणान्वेषणं विशीर्यते । प्रमाणं हि यथावस्थितवस्तुव्यवस्थितये समाश्रीयते; सा चेत्ततो न स्यात्, किं तत्परीक्षणेनेति । नाप्यनैकान्तिकमिदं साधनं, प्रमाणपरीक्षणादेव । नापि कालात्ययापदिष्टोऽयं हेतुः, कालात्ययापदिष्टत्वं हि प्रत्यक्षानुमानबाधितकर्मनिर्देशान25 न्तरप्रयुक्तत्वं, यथानुष्णस्तेजो वयवी कृतकत्वात्, घटवदिति । यथोष्णत्वग्राहिणा प्रत्यक्षेणानुमानेन च बाध्यमानत्वं प्रतिज्ञायाः, नैवमत्र प्रत्यक्षानुमानादिप्रमाणेनानेकधर्मपरि
1 C omits from तत्तथा ( 13 ) down to वस्तुजातम् (1.5).
१४