________________
जैनो युक्तिमेवावगाहतेपक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्ववचनं यस्य तस्य कार्यः परिग्रहः ॥४४॥
तदेवाह
जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः । हतमोहमहामल्लः केवलज्ञानदर्शनः ॥४५॥ सुरासुरेन्द्रसम्पूज्यः सद्भूतार्थोपदेशकः ।
कृत्स्नकर्मक्षयं कृत्वा सम्प्राप्तः परमं पदम् ॥४६॥ (सो०) तत्र तस्मिन् जैनमते जिनेन्द्रो देवता कृत्स्नकर्मक्षयं कृत्वा परमं पदं सम्प्राप्त इति सम्बन्धः । जिनेन्द्र इति जयन्ति रागादीनिति जिनाः सामान्यकेवलिनस्तेषामिन्द्रः स्वामी तादृशासदृशचतुस्त्रिंशदतिशयसम्पत्सहितो जिनेन्द्रो देवता दर्शनप्रवर्तक आदिपुरुषः एष कीदृक् सन् शिवं सम्प्राप्त इति परासाधारणानि विशेषणान्याह रागद्वेषविवर्जित इति । रागः सांसारिकस्नेहोऽनुग्रहलक्षणः, द्वेषो वैराद्यनुबन्धान्निग्रहलक्षणः, ताभ्यां विवजितो रहितः । एतावेव दुर्जयौ दुरन्तभवसम्पातहेतुकतया च मुक्तिप्रतिरोधको समये प्रसिद्धौ । यदाह
को दुक्खं पाविज्जा कस्स न सुक्खेहिं विम्हओ हुज्जा ।। को य न लभेज्ज मुक्खं रागहोसा जइ न हुज्जा ॥
(उपदेशमाला-१२९) इति तथा हतमोहमहामल्लः मोहनीयकर्मोदयात् हिंसात्मकशास्त्रेभ्योऽपि मुक्तिकाङ्क्षणादिव्यामोहो मोहः स एव दुर्जेयत्वान्महामल्ल इव महामल्लः, हतो मोहमहामल्लो येनेति स तथा । रागद्वेषमोहसद्भावादेव न चान्यतीर्थाधिष्ठातारो मुक्त्यङ्गतया प्रतिभासन्ते, तत्सद्भावश्च तेषु सुज्ञेय एव । यदुक्तम्
रागोऽङ्गनासङ्गमनानुमेयो द्वेषो द्विषाद् दारणहेतिगम्यः । मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवस्य स चैवमर्हन् ॥
• ४३ .