________________
साङ्ख्यमतस्याप्यधुना कथित इति । साङ्ख्य इति पुरुषनिमित्तेयं सञ्ज्ञा । सङ्घस्य इमे साङ्ख्याः । तालव्यो वा शकारः शङ्खनामाऽऽदिपुरुषः ।
,
अथ क्रमायातं जैनमतोद्देशमाह— अधुनेत्युत्तरार्द्धेन वा सम्बध्यते । अधुना इदानीं जैनदर्शनसङ्क्षेपः कथ्यते कथम्भूत इति । सुविचारवान् । सुष्ठु शोभनो विचारोऽर्थोऽस्यास्तीति मत्वर्थीये मतुप् । सुविचारवानिति साभिप्रायं पदम् । अपरदर्शनानि हि—
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ (मनु. १२.११० ) इत्याद्युक्त्या न विचारपदवीमाद्रियन्ते । जैनस्त्वाह
अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते ।
निर्दोषं काञ्चनं चेत्स्यात्परीक्षाया बिभेति किम् ॥
इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाहते । न च पारम्पर्यादिपक्षपातेन युक्तिमुल्लङ्घयति परमार्हतः । उक्तञ्च— पक्षपातो न मे वीरे न द्वेषः कपिलादिषु ।
युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥ (लोकतत्त्व. ११३८ ) इत्यादिहेतुहेतिशतनिरस्तविपक्षप्रसरत्वेन 'सुविचारवान्' इत्यसाधारणं विशेषणं ज्ञेयमिति ॥४४॥
(अव०) चः समुच्चये । न केवलं बौद्धनैयायिकयोः साङ्ख्यमतस्यापि सङ्क्षेपः कथितः । सुष्ठु शोभनो विचारोऽर्थोऽस्यास्तीति साभिप्रायम् । अपराणि दर्शनानि—
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ (मनुस्मृतिः १२.११०)
इत्याद्यविचारपदवीमाद्रियन्ते । जैनस्त्वाह—
अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत्स्यात् परीक्षाया बिभेति किम् ॥
• ४२ •