________________
तत्त्वं । पुरुषः अन्यः अकर्ता । प्रकृतिरेव करोति बध्यते मुच्यते च । पुरुषस्तु
अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने ॥
अन्यः प्रकृतिरेव कर्ता तु पुनर्न पुरुषः । विगुणः सत्त्वरजस्तमोरूपगुणत्रयविकलः । भोक्ता भोगी । नित्यं चा चिच्चैतन्यशक्ति: तयाभ्युपेतः सहितः । आत्मा हि स्वं बुद्धेरव्यतिरिक्तं मन्यते । सुखदुःखादयो विषया इन्द्रियद्वारेण बुद्धौ सङ्कामन्ति । बुद्धिश्चोभयमुखदर्पणाकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुःख्यहमित्युपचर्यते ॥४१॥
तत्त्वोपसंहारमाह
पञ्चविंशतित्त्वानि साङ्ख्यस्यैव भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पमवन्धयोरिव ॥४२॥
(सो०) पूर्वार्धं निगदसिद्धम् । अत्र साङ्ख्यमते प्रधाननरयोः प्रकृतिपुरुषयोवृत्तिर्वर्तनं पङ्ग्वन्धयोरिव पङ्गश्चरणविकलः, अन्धश्च नेत्रविकलः । यथा पङ्ग्वन्धौ संयुतावेव कार्यसाधनाय प्रभवतो न पृथग्भूतौ । प्रकृतिपुरुषयोरपि तथैव कार्यकर्तृत्वम् । प्रकृत्युपात्तं पुरुषो भुङ्क्त इत्यर्थः ॥४२॥
(अव०) तत्त्वोपसंहारमाह-पूर्वार्धं सुगमम् । अत्र साङ्खयमते प्रकृतिपुरुषयोर्वर्तनं पङ्ग्वन्धयोरिव । यथा पङ्ग्वन्धौ संयुतावेव कार्यक्षमौ न पृथक्, तथा प्रकृतिनरौ । प्रकृत्युपात्तं पुरुषो भुङ्क्त इत्यर्थः ॥४२॥
मोक्षं प्रमाणं चाह
प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् । मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिकं शाब्दम् ॥४३॥
(सो०) मोक्षः किमुच्यत इत्याह । पुरुषस्यात्मन आन्तरज्ञानात्
• ४० .