________________
पुरुषस्तु———
अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्मः आत्मा कापिलदर्शने ॥
पुरुषगुणानाह - विगुण इति । सत्त्वरजस्तमोरूपगुणत्रयविकलः । तथा भोक्ता भोगी, एवम्प्रकारः पुमान् तत्त्वं पञ्चविंशतितमं तत्त्वमित्यर्थः । तथा नित्यचिदभ्युपेतः, नित्या चासौ चिच्चैतन्यशक्तिस्तयाभ्युपेतः सहितः । आत्मा हि स्वं बुद्धेरव्यतिरिक्तमभिमन्यते । सुखदुःखादयश्च विषया इन्द्रियद्वारेण बुद्धौ सङ्क्रामन्ति । बुद्धिश्चोभयमुखदर्पणाकारा, ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुःख्यहमित्युपचर्यते । आह च पातञ्जले, "शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रतिभासते " [योगभाष्यम् २-२०] इति । मुख्यतस्तु चिच्छक्तिर्विषयपरिच्छेदशून्या, बुद्धेरेव विषयपरिच्छेदस्वभावत्वात् चिच्छक्तिसन्निधानाच्चाचेतनापि बुद्धिश्चेतनावतीवावभासते । वादमहार्णवोऽप्याह
बुद्धिदर्पणसङ्क्रान्तमर्थविप्रतिबिम्बकम् । द्वितीयदर्पणकल्पे पुरुषे ह्यधिरोहति ॥
तदेव भोक्तृत्वमस्य न तु विकारोत्पत्तिरिति । तथा चासुरि:विविक्ते दृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥
विन्ध्यवासी त्वेवं भोगमाचष्टे
पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधेः स्फटिकं यथा ॥ इति नित्यचिद् ज्ञानयुक्तः । बन्धमोक्षसंसाराश्च नित्येऽप्यात्मनि भृत्य - गतयोर्जयपराजययोरिव तत्फलकोशलाभादिसम्बन्धेन स्वामिन्युपचारवदत्राप्युपचर्यन्त इत्यदोषः ॥४१॥
=
(अव० ) प्रकृतेर्महानहङ्कारः पञ्च बुद्धीन्द्रियाणिपञ्चकर्मेन्द्रियाणि मनश्च पञ्चतन्मात्राणि पञ्च भूतानि २४ तत्त्वानि रूपं यस्य तत्प्रधानं प्रकृतिः कथिता । पञ्चविंशं
I
• ३९