________________
परं कथ्यत इत्यर्थः ॥३३॥
(अव०) पूर्वार्धं सुगमम् । साङ्ख्याः कापिलाः, आदि पुरुषनिमित्तेयं सज्ञा । तदभीष्टपञ्चविंशतितत्त्वादिभावानां सङ्क्षपः कथ्यते ॥३३॥
दर्शनस्वरूपमाहसाङ्ख्या निरीश्वराः केचित्केचिदीश्वरदेवताः । सर्वेषामपि तेषां स्यात्तत्त्वानां पञ्चविंशतिः ॥३४॥
(सो०) केचित्साङ्ख्या निरीश्वरा ईश्वरं देवतया न मन्यन्ते केवलाध्यात्मवेदिनः । केचित्पुनरीश्वरदेवता महेश्वरं स्वशासनाधिष्ठातारमाहुः । सर्वेषामपि । तेषां केवलनित्यात्मवादिनामीश्वरदेवतानां च सर्वेषां साङ्ख्यमतानुसारिणां शासने तत्त्वानां पञ्चविंशतिः स्यात् । तत्त्वं ह्यपवर्गसाधकं बीजमिति सर्ववादिसंवादः । यदुक्तम् ।।
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥३४॥ तन्मते पञ्चविंशतिस्तत्त्वानीत्यर्थः ।।
(अव०) ईश्वरं देवतया न मन्यन्ते केवलाध्यात्मवादिनः । केचित्पुनः ईश्वरदेवताः । तेषामुभयेषामपि तत्त्वानां पञ्चविंशतिर्भवति । तत्त्वं ह्यपवर्गसाधकम् । यदुक्तम्
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥३४॥
गुणत्रयमाह
सत्त्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् । प्रसादतोषदैन्यादिकार्यलिङ्गं क्रमेण तत् ॥३५॥
• ३४ .