________________
भूतदोषोद्भावनान्निगृह्यत इति (२०) ।
सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तो नाम निग्रहस्थानम् । यः प्रथमं कञ्चित्सिद्धान्तमभ्युपगम्य कथामुपक्रमते, तत्र च सिषाधयिषितार्थसाधनाय परोपलम्भाय वा सिद्धान्तविरुद्धमभिधत्ते सोऽपसिद्धान्तेन निगृह्यते (२१) ।
हेत्वाभासाश्च यथोक्ता असिद्ध-विरुद्धादयो निग्रहस्थानम् इति (२२) ।
भेदान्तरानन्त्येऽपि निग्रहस्थानानां द्वाविंशतिर्मूलभेदा निवेदिता इति ॥३२॥
(अव०) येन केनचिद् द्रव्येण विपक्षो निगृह्यते तन्निग्रहस्थानम् । प्रतिज्ञाशब्दः सम्बध्यते प्रतिज्ञाहानिः प्रतिज्ञासंन्यासः प्रतिज्ञाविरोध इत्यादि । हेतौ अनैकान्तिके कृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तधर्मेऽभ्युपगच्छतः प्रतिज्ञाहानिनिग्रहस्थानम्, यथा अनित्यः शब्द ऐन्द्रियिकत्वात् घटवदिति प्रतिज्ञा साधनाभासवादी वदन् परेण 'सामान्यमैन्द्रियिकमपि नित्यं दृष्टम्' इति हेतावनेकान्ते कृते यद्येवं ब्रूयात् 'सामान्यवद् घटोऽपि नित्यो भवति' इति वाणः शब्दानित्यत्वप्रतिज्ञां त्यजेत् । 'पक्षसाधनदूषणोद्धाराशक्त्या प्रतिज्ञामेव निढुवानस्य प्रतिज्ञासंन्यासो निग्रहस्थानम् । यथानित्यः शब्द ऐन्द्रियिकत्वेन तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात् क एवमाह अनित्यः शब्द इति प्रतिज्ञासंन्यासः । प्रतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधः निग्रहस्थानम् । यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति प्रतिज्ञाहेत्वोविरोधः । यदि गुणद्रव्यातिरिक्तं तदायं प्रतिज्ञाविरुद्धाभिधानात् पराजीयते ॥३२॥
अथोपसंहरन्नाह
नैयायिकमतस्यैवं समासः कथितोऽधुना । साङ्ख्याभिमतभावानामिदानीमयमुच्यते ॥३३॥
(सो०) एवम् इत्थम्प्रकारतया नैयायिकमतस्य शैवशासनस्य समासः सङ्क्षपोऽधुना कथितो निवेदितः साम्प्रतमेव निष्ठित इत्यर्थः । इदानी पुनरयं समासः साङ्ख्याभिमतभावानाम् उच्यते । साङ्ख्याः कापिला इत्यर्थः । तदभिमता तदभीष्टा ये भावाः पञ्चविंशतितत्त्वादयस्तेषां सक्षेपोऽतः