________________
इति सङ्कटे प्रस्तावे च सति छलादिभिरपि स्वपक्षस्थापनमनुमतम् । परविजये हि धर्मध्वंसादिदोषसम्भवस्तस्माद्वरं छलादिभिरपि जयः । सा वितण्डा तु या प्रतिपक्षविवर्जिता । सा पुनर्वितण्डा, या किम् ? विजिगीषुकथेव प्रतिपक्षविवर्जिता । वादिप्रयुक्तपक्षतिरोधकः प्रतिवाद्युपन्यासः प्रतिपक्षस्तेन विवर्जिता रहितेति प्रतिपक्षसाधनविहीनो वितण्डावादः । वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत्किञ्चिद्वादेन परोक्तमेव दूषयतीत्यर्थः ॥३०॥
(अव०) विजयाभिलाषिणो वादिनः प्रतिवादिनश्च प्रारब्धप्रमाणोपन्यासगोष्ठी छलं त्रिधा-वाक्छलम्, सामान्यछलम्, उपचारछलम् । जातयः २४ भेदाः । आदिशब्दात् निग्रहस्थानानि । एतैः कृत्वा परपक्षनिराकरणं दूषणोत्पादने स्वमतस्थापनेन स जल्पः । सा वितण्डा, या वादिप्रयुक्तपक्षप्रतिरोधकप्रतिवादिन्यस्तप्रतिपक्षरहिता ॥३०॥
हेत्वाभासा असिद्धाद्याश्छलं कूपो नवोदकः । जातयो दूषणाभासा: पक्षादिर्दूष्यते न यैः ॥३१॥
(सो०) हेत्वाभासा ज्ञेया इति । के ते ? इत्याह-असिद्धाद्याः, असिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरणसमाः पञ्च हेत्वाभासा ज्ञेयाः । तत्र पक्षे धर्मत्वं यस्य नास्ति सोऽसिद्धः । विपक्षे सन् सपक्षे चासन् विरुद्धः । पक्षत्रयवृत्तिरनैकान्तिकः । प्रत्यक्षानुमानागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः । विशेषाग्रहणे हेतुत्वेन प्रयुज्यमानः प्रकरणसमः । उदाहरणानि स्वयमभ्यूह्यानि ।
छलं कपो नवोदक इति । परोपन्यस्तवादे स्वाभिमतार्थान्तरकल्पनया वचनविघातश्छलम् । कथम् ? इत्याह-वादिना कूपो नवोदक इति कथायां प्रत्यग्रार्थवाचकतया नवशब्दप्रयोगे छलवादी नवसङ्ख्यामारोप्य दूषयति । कुत एक एव कूपो नवसङ्ख्योदक इति वाक्छलम् । प्रस्तावागतत्वेन शेषच्छलद्वयमप्याह-सम्भावनयातिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यच्छलम् । यथा 'अहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न' इति । ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्वदति-सम्भवति ब्राह्मणे विद्याचरणसम्पदिति ।
• २४ ..