________________
इत्याह-कथाभ्यासहेतुः । कथा प्रामाणिकी तस्या अभ्यासे हेतुः कारणम् । कयोः ? आचार्यशिष्ययोः आचार्यो गुरुरध्यापकः, शिष्यश्चाध्येता विनेय इति । कस्मात् ? पक्षप्रतिपक्षपरिग्रहात् । पक्षः पूर्वपक्षः प्रतिज्ञादिसङ्ग्रहः प्रतिपक्ष उत्तरपक्षः पूर्वपक्षवादिप्रयुक्तप्रतिज्ञादिप्रतिपन्थिकोपन्यासप्रौढिः तयोः परिग्रहात्सङ्ग्रहादित्यर्थः । आचार्यः पूर्वपक्षमङ्गीकृत्याचष्टे शिष्यश्चोतरपक्षमुररीकृत्य पूर्वपक्षं खण्डयति । एवं निग्राहकजयपराजयच्छलजात्यादिनिरपेक्षतया अभ्यासनिमित्तं पक्षप्रतिपक्षपरिग्रहेण यत्र गुरुशिष्यौ गोष्ठी कुरुतः स वादो ज्ञेयः ॥२९॥
(अव०) कथा प्रामाणिकी तस्या अभ्यासकारणं यः स वादः पक्षः प्रतिज्ञा प्रतिपक्षः प्रतिज्ञोपन्यासप्रतिपन्थी तयोः सङ्ग्रहात्, निग्राहकजयपराजयानपेक्षगुरुविनेययोः ॥२९॥
अथ तद्विशेषमाह
विजिगीषुकथायां तु छलजात्यादिदूषणम् । स जल्पः सा वितण्डा तु या प्रतिपक्षविवर्जिता ॥३०॥
(सो०) स जल्प इति सम्बन्धः । यत्तु विजिगीषुकथायां विजयाभिलाषिवादिप्रतिवादिप्रारब्धप्रमाणोपन्यासगोष्ठ्यां सत्यां छलजात्यादिदूषणम् । छलं त्रिप्रकारम्-वाक्छलं, सामान्यच्छलम्, उपचारच्छलं चेति, जातयश्चतुर्विंशतिभेदाः, आदिशब्दान्निग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दूषणं परोपन्यस्तपक्षादेर्दूषणजालमुत्पाद्य निराकरणम् । अभिमतं च स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याधुपन्यासैः परप्रयोगस्य दूषणोत्पादनम् । तथा चोक्तम्
दुःशिक्षितकुतर्काशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डादोषमण्डिताः ॥ गतानुगतिको लोकः कुमार्गं तत्प्रतारितः । मा गादिति छलादीनि प्राह कारुणिको मुनिः ॥ [न्यायमञ्जरी प्रमा०]
• २३ .