________________
मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ।। शौद्धोदनिधर्मकीर्तिप्रमुखा गुरवो मताः ॥१३६॥ प्रत्यक्षमनुमानं च द्वे प्रमाणे तु तन्मते । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥१३७॥ सर्वज्ञस्तन्मते बुद्धः स प्रमेयचतुष्कवाक् । दुःखं समुदयो मार्गो निरोधश्चेति तात्त्विकम् ॥१३८॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना सञ्ज्ञा संस्कारो रूपमेव च ॥१३९॥ समुदेति यतो लोके रागादीनां गणोऽखिलः । आत्माऽऽत्मीयस्वभावाख्यः समुदयः स उदाहृतः ॥१४०॥ क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या । स मार्ग इह विज्ञेयो निरोधो मोक्ष उच्यते ॥१४१॥ सुगताचारलग्नस्य ज्ञाननिर्मलता हि या । सा मुक्तिर्मन्यते बौद्धैः कैश्चित् कैश्चिच्चितेः क्षयः ॥१४२॥ आत्मानं मन्वते नैते ज्ञानमेव तु मन्वते । भवान्तरे सहचरं सन्तानस्थं क्षणक्षयि ॥१४३॥ चत्वारो बौद्धभेदाः स्युभक्तिस्तेषां पृथक् पृथक् । काव्यादमुष्याद् ज्ञातव्यास्तन्मतप्रतिपादितात् ॥१४४॥ अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते, प्रत्यक्षेण हि बाह्यवस्तुविसरः सौत्रान्तिकैराहतः । योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम् ॥१४५॥ तर्कभाषा हेतुबिन्दुायबिन्दुस्तथाऽर्चटः । तर्कः कमलशैलश्च तथा न्यायप्रवेशकः ॥१४६॥
• ९७ .