________________
वायुः पवनः, इति भूतचतुष्टयं तेषां चार्वाकाणां चैतन्यभूमिः, चैतन्योत्पत्तिकारणं चत्वार्यपि भूतानि सम्भूय सपिण्डं चैतन्यं जनयन्तीत्यर्थः । तुः पुनर्मानं प्रमाणं हि निश्चितम् । अक्षजमेव प्रत्यक्षमेवैकं प्रमाणमित्यर्थः ॥८३॥
(अव०) पृथ्वी जलमिति । पृथ्वी भूमिः, जलमापः, तेजो वह्निः, वायुः पवनः, एतानि चत्वारि भूतानि एतेषामाधारोऽधिकरणभूमिः भूतानि सम्भूय एकं चैतन्यं जनयन्ति । एतन्मते प्रमाणम्, प्रत्यक्षमेव एकं प्रमाणं न पुनरनुमानादिकम् । हिशब्दोऽत्र विशेषार्थो वर्तते । विशेषः पुनश्चार्वाकैः लोकयात्रानिर्वाहणप्रवणं धूमाद्यनुमानमिष्यते । क्वचन, न पुनः स्वर्गादृष्टादिप्रसाधकमलौकिकमनुमानमिति । [चैतन्यमाह-पूर्वार्धं सुगमम् । एतेषां चार्वाकाणां चेतनोत्पत्तिकारणं भूतचतुष्टयम् । चत्वार्यपि सम्भूय चैतन्यमुत्पादयन्ति । तुः पुनः । मति प्रमाणम् अक्षमेव] ॥८३॥
ननु भूतचतुष्टयसंयोगजा देहचैतन्योत्पत्तिः कथं प्रतीयतामित्याशङ्क्याह
पृथ्व्यादिभूतसंहत्यां तथा देहादिसम्भवः ।
मदशक्तिः सुराङ्गेभ्यो यद्वत्तद्वत्स्थितात्मता ॥४४॥ (सो०) पृथ्व्यादीनि पृथिव्यप्तेजोवायुरूपाणि यानि भूतानि तेषां संहत्यां मेले संयोगे सति, तथेत्युपदर्शने, देहादिसम्भवः, आदिशब्दादितरे भूभूधरादिपदार्था अपि भूतचतुष्टयसंयोगजा एव ज्ञेयाः । दृष्टान्तमाह-यद्वद् येन प्रकारेण सुराङ्गेभ्यो गुडधातक्यादिभ्यो मद्याङ्गेभ्यो मदशक्तिरुन्मादकत्वं भवति, तद्वत्तथा भूतचतुष्टयसम्बन्धात् शरीरे आत्मता स्थिता सचेतनत्वं जातमित्यर्थः ॥८॥
(अव०) ननु भूतचतुष्टयसंयोगे कथं चैतन्योत्पत्तिरित्याह-पृथिव्यादिचतुर्भूतानां संहतौ मेले सति । तथेत्युपदर्शने । देहादिसम्भवः । आदिशब्दाद् भूधरादिपदार्था अपि । यथा येन प्रकारेण सुराङ्गेभ्यो गुडधातक्यादिभ्यो मदशक्तिः उन्मादकत्वं भवति तथा भूतचतुष्टयसम्बन्धाच्छरीरे आत्मनः स्थिता सचेतनता ॥८४॥
१. [ ] एतच्चिह्नान्तर्गतोः पाठोऽधिक आभाति ।