________________
शोभनत्वमिति परोक्तमाशङ्क्याह- यदतीतं वरगात्रि ! तन्न ते । हे प्रधानाङ्गि ! यदतीतम् अतिक्रान्तं यौवनादि तत्ते तव भूयो न, किं तु जराजीर्णत्वमेव भविष्यतीत्यर्थः । जातशोभने ! वरगात्रीतिसम्बोधनयोः समानार्थयोरप्यादरानुरागातिरेकान्न पौनरुक्त्यदोषः । यदुक्तम् —
1
अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥
ननु स्वेच्छयाविच्छिन्ने खादने पाने दुस्तरा परलोके कष्टपरम्परा, सुलभं च सति सुकृतसञ्चये भवान्तरेऽपि यौवनादिकमिति पराशङ्कां दूषयन्नाह-न हि भीरु ! गतं निवर्तते । हे भीरु ! परोक्तमात्रेण नरकादिप्राप्यदुःखभयाकुले ! गतम्, इह भवातिक्रान्तं सुखं यौवनादि न निवर्तते परलोके नाढौकते परलोकसुखाकाङ्क्षया तपश्चरणादिकष्टक्रियाभिरिहत्यसुखोपेक्षा व्यर्थेत्यर्थः । अथ जन्यजनकसम्बन्धसद्भावादमुना कायेन परलोकेऽपि सहेतुकं सुखदुःखादिकं वेदितव्यमवश्यमेवेति चेद्; आह- समुदयमात्रमिदं कलेवरम् । इदं कलेवरं शरीरं समुदयमात्रं समुदयो मेल: वक्ष्यमाणचतुर्भूतानां संयोगस्तन्मात्रं मात्रशब्दोऽवधारणे भूतचतुष्टयसम्बन्ध एव कायो न च पूर्वभवादिसम्बद्धशुभाशुभकर्मविपाकवेद्यसुखदुःखादिसव्यपेक्ष इत्यर्थः । संयोगाश्च तरुशिखरावलीलीनशकुनिगणवत्, क्षणतो विनश्वरास्तस्मात् परलोकानपेक्षया यथेच्छं पिब खाद चेति वृत्तार्थः ॥८२॥
(अव०) परमार्थवेदिन इदं वाक्यम्-यदतीतं यौवनादि तन्न ते किन्तु जराजीर्णत्वादि भावि । हे भीरु ! गतम् इह भवातिक्रान्तं सुखयौवनादि परलोके न ढौकते भूतानां समुदयो मेलः तन्मात्रम्, कलेवरं भूतचतुष्टयाधिकस्याभावान्न च पूर्वभवादिसम्बन्धः शुभाशुभकर्मजन्यः ॥८२॥
चैतन्यमाह—
किञ्च पृथ्वी जलं तेजो वायुर्भूतचतुष्टयम् । चैतन्यभूमिरेतेषां मानं त्वक्षजमेव हि ॥८३॥
(सो०) किञ्चेत्युपदर्शने, पृथ्वी भूमिः, जलमापः, तेजो वहिनः,
•८००