________________
प्रस्तावना। देवागमस्तोत्रस्यैवापरामिधा-आप्तमीमांसा–नार्य स्वायत्ततया विरचितो ग्रंथः किंतु गंधहस्तिमहाभाष्यस्य मंगलाचरणं । भाष्यस्य चतुरशीतिसहस्रपरिमिता ८४००० श्लोकसंख्या । श्रीमदुमास्वामिशयकुशेशयखचिततत्त्वार्थाधिगमसूत्रस्यो (मोक्षशास्त्रस्य) परिष्टात्तद्भाष्यं । दुर्भागधेयमेतदास्माकीनं यत्नो दृष्टिपथमायाति तत्सांप्रतं ।
एतस्याः किलाप्तमामांसाया उपरि कृता सैद्धांतिकचक्रवर्तिना श्रीमद्वसुनंदिना पदवृत्तिः । विरचिता च श्रीमदकलंकदेवस्वामिना भाष्यभूताष्टशती स्वातंत्र्येण कारिकाणामुपरि । विरचयामास चाष्टशत्युपरिभष्टशतीनाम्नी विवृति श्रीमाद्विद्यानंदिप्रभुः । भूमंमलं कदा मंडयायासास्मपाण्डित्येन श्रीमदकलंकदेवस्वामी ति तु समाविर्भावयामोवयं श्रीमत्तत्त्वार्थराजवार्तिकप्रस्तावनोल्लेखसमये । प्रभोविद्यानंदिनस्तु व्यलेख्याप्तपरीक्षाप्रस्तावनायामबदाततयास्माभिरितिवृत्तं ।।
प्रमाणपरीक्षा । अत्रांकेऽपरः प्रमाणपरीक्षाभिधोग्रंथः । रचयिता किलैतद्नंथरत्नस्य समजनि श्रीमद्विद्यानंदिप्रभुः महचित्रमेतद्विरचयंतोऽप्यतलस्पर्शगभीरग्रंथमिमं श्रीमद्विद्यानंदाः न प्रकटयांचक्रिरे स्वनामविवृति कापि यशोलिप्सया तथापि
जयंति निर्जिताशेषसर्बथैकांतनीतयः ।
'सत्यवाक्याधिपाः शश्वविद्यानंदा जिनेश्वराः ॥ १॥ . इत्यत्र जिनेश्वरविशंषणीभूतेन विद्यानंदपदेन
७७ तमेपृष्ठे-तस्यानादेरेकस्येश्वरस्यासपरीक्षायासुपक्षिमत्वादिति वाक्ये आप्तपरीक्षापदोलेखेन-आप्तपरीक्षापत्रपरीक्षेतिग्रंथद्वयस्य समानकर्तृकत्वप्रतिभासकत्वात्-अयमंगले च विद्यापददानानियतं विज्ञायतेऽस्माभिरयमेव श्रीविद्यानंदप्रभुः प्रमाणपरीक्षायाः कर्ता ।
ग्रंथसंपादनसमये भष्टशत्याः पुस्तकद्वयं मया मोहमयीतः समुपलब्धं तत्र क. पुस्तकस्य शुद्धत्तरत्वेपि ख. पुस्तकमतीवाशुद्धमासीत् । ततोऽन्वभूवं वहलं कष्टं कठिनतमाप्तमीमांसाग्रंथसंपादनकाल ।
प्रमाणपरीक्षायाः क, पुस्तकं जैनहितैषिसंपादकश्रीमत्पडितनाथूरामजीमहानुभावैः
ख. पुस्तकं च स्याद्वादमहाविद्यालयप्रधानाध्यापकैः श्रीमत्पडित-उमराव सिंहजीमहोदयैः प्रहितमिति विहितानुग्रहोऽस्म्युक्तविदुषोः । यदपि पंडितंमन्याधुनिकलेखकतदनुयायिमहोदयानुकंपया प्रमाणपरीक्षायाः पुस्तकद्वयमप्यतीवाशुद्धं तदपि-एकतः संजातशंकाया अपरतः समाधानात् समपादि महता. प्रयासेनेयं प्रमाणपरीक्षा । तथापि प्रमत्तयोगादजनिष्ट कापि स्खलनं मामकीनं क्षमयंतु तदशक्यपरिमार्जनस्खलनं साक्षरवरा इति सनतिमभ्यर्थना । लेखकादिमहानुभावकरकमलखचितग्रंथमाहात्म्यात्-असामयिक वैकल्यतश्च विनिचाय्य कुतोऽपि मामकीनं स्खलनं कठिनतमसंपादनकृत्यानुभवबहिर्भूतत्वात् वेधयंति केचित्स्वरतरकुवचनसायकैः संपादकं । शिक्षयितृत्वे तेषामनुगृहीतोऽस्मि ।
. प्रियमित्रवर देवराज ! पठिष्यामीति तावकाग्रहवशंवदतया महतायासेन संपादितापीयं प्रमाण परीक्षा असामयिकभवन्निधनतो दुनोति मामकीनं मनो बहलतया ।
___ अवदातहृदय ! न ताक्कीनोपकारबिनिमये किमपि मत्पार्श्वे समीचीनं वस्तु येन विगतोपकारभारः स्यां-ततस्त्वद्गुणस्मृतिसमीहया समर्पयामि तव करकमलयोः श्रीप्रमाणपरीक्षामिमां सविनयंएहि परमनिश्रेयसं त्वमिति मे कामना ।
विद्वत्कृपाभिलाषी
गजाघरलाल