SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना आप्तमीमांसा विद्वन्महोदयाः ! - प्रत्यपत्त नाम वैफल्यं पुरा स्वपरहितापादना कुंचितशेभुषीनामार्हतमतप्रवर्तकमानिनामाहतानां पुरस्तात् सविनयमपि कृताभ्यर्थना: श्रीमंताममळतत्त्वस्वरूपावबुभुत्सूनामवदाततया । परंतु नाद्यत्वे ते जैनाः । प्रतियंति कतिपयास्तेष्वार्हततत्त्वप्रवर्तनफलं । समाविरभावि तैस्तत्स्वरूपप्रकाशनाय सनातन जैनग्रंथमालाभिधोऽनुपम प्रभाकरः । रसयंतु रसिकाः तत्स्वरूपसुधां निर्व्यूहतया सांप्रतमिति समभ्यर्थना | समुपानीयते ग्रंथरत्नद्वयमिदमस्माभिरद्य श्रीमतां पुरस्तात् । आदिमं - आप्तमीमांसा वृत्त्यष्टशतीति विशदटीकाद्वितयविभूषिता । अपरं - अमलप्रमाणस्वरूपावबोधिका प्रमाणपरीक्षा । आदिमस्य प्रणेता किल प्रथरत्नस्य समजनि श्रीमत्स्वामिसमंतभद्रः समंतभद्रः । सर्वथा परहितप्रणिहितात्मायं महात्मा कदा भारतभूमिममं विभूषयामासात्मवैदुष्येणेति नास्ति किमपि निर्णायकं गमकं । सांप्रतिकेतिवृत्तवेत्तृणां मतमिदमस्य पावनात्मानो विषये यदजनिष्टायं षष्ठायां ख्रीष्टशताब्दौ । नंदि - संघपट्टावलीतश्च व्यज्ञायीदं समपद्यतायं सपादप्रथमायां शताब्दौ । कामयांचकार च मैसूर प्रांतस्थकांची - लुरमवदातयात्मनीनवासेन । परं नोभयत्रापि समयनिर्णये प्रत्यायकं किमपि सुनिर्णेयं प्रमाणं । किंतु नात्र संशीतिः प्रवादिमहीधराशनिनानेन मुनिना भवितव्यं नियतं प्रखरविदुषा चिरंतनतमेन च । जतश्रुतिरप्येतद्विषयिणीयं आसीत्किल विविधमतिमन्निकरपरिपालितनिदेशः शेमुषीमंथनमथितानैकागमोदधिसमवाप्तानवद्यसुधापरिपूरितस्वांतः श्रीसमंतभद्रो भगवान् मुनिराट् । स चैकदा पुरा समुपार्जितनैकाशुभकर्मसंपातात् समुपात्तप्रखरभस्मव्याधिः कठिनतमं मुनित्रतं परिपालयितुमशक्नुवन् व्याधिपरिहरणाधिया विमुच्य मुनिलिंगं समियाय वाराणस्यां । तदात्वे च वाराणस्यां कश्चित् स्वप्रतापपराभूतविबुधपतिः शिवकोटिमहीपतिरासीत् स च परमशैवत्वात विनिर्माय कमपि शिवालयं समादिशत् बहुलसुरसमोदकादिसामग्या शिवमर्चयितुं । यदा च समंतभद्रः समश्रौषीत् बहुलया सामग्न्या शिवस्य पूजां तदाधिकं मनसि तुतोष । समेत्य च नरपतिशिवकोटिपरिषदि, उपदर्श्य कमपि लोकेतरातिशयं प्रपेदे शिवपूजकपदं राजानुमत्या । भक्षंश्च सुरसपदार्थजातं शमयामास च स्वोदरव्याधिं सानंदं । कियता कालेन व्याधिस्तस्योपशशाम । व्याध्युपशमे च कदाचि पुनः शिवकोटिपरिषदि समागत्य, आविर्भाव्य च विचित्रातिशयं स्वमंत्रवचनव्याहूताष्टम जिनचंद्रप्रभं, चकार शिवकोटिमहीपतिं दिगंबरदीक्षादीक्षितं । भगवत्समंतभद्रः स्वव्याध्युपशमनकामनया वाराणसीप्राप्तितः पूर्वमपि वहुत्र वभ्राम । अतो यदा शिवकोटिमहीपतिः स्वामिपरिचिकीषया तदीयवृत्तमप्राक्षीत् तदा परिचायितः स पद्येनामुना स्वामिना । कांच्यां नग्नाटकोऽहं मलमलिनतनुलबशे पांडुपिंड : पुंडेंड्रे शक्यभिक्षुर्दशपुरनगरे मिष्टभोजी परिब्राट् । बाराणस्यामभूवं शशधरधवलः पाण्डुरांगस्तपस्वी राजन् यस्यास्ति शक्तिः स वदतु पुरतो जैननिर्ग्रथवादी ॥१॥ नेमिचंद्र वीणरचिताराधनाखारस्थं पद्यमिदं मल्लिषणप्रशस्तौ च समुल्लेखोऽयं स्वामिविषयकः - बंद्यो भस्मकभस्मसात्कृतिपटुः पद्मावतीदेवता - दत्तोदात्तपदः स्वमंत्रवचनव्याहूतचंद्रप्रभः ।
SR No.022470
Book TitleAapt Pariksha Patra Pariksha Cha
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherSanatan Jain Granthmala
Publication Year1913
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy