________________
पत्रपरीक्षा। पत्तिरिति लक्षणस्य भावात् वाक्छों वा संभवदर्थपरित्यागेनासंभवतोऽर्थस्य परिकल्पनात् न हि प्रमाणबलान्नैयायिकादिपरिकल्पितः पत्रवाक्ये संभबन्नर्थः सिद्धः प्रत्यक्षादिबलादनेकांतस्यैव प्रसिद्धेः प्रत्यक्षं हि तावत् बहिरंतश्च तत्त्वं भावाभावात्मकं व्यवस्यति सर्वथा विरोधाभावात् बाधकरहितं जातुचित् एकांतस्यासाक्षात्करणात् तथाभूतानेकधर्माधिष्ठानं भावः विशेषणविशेष्यादिव्यवहारान्यथानुपपत्तरित्यनुमानाच्च सर्व भावाभावात्मकं सिद्धं । आगमाच्च सुनिर्बाधकप्रमाणादिति प्रपंचतोन्यत्र तत्त्वार्थालंकारे देवागमे च प्रोक्तमिह पत्रपरीक्षायां सद्भिरवगतंव्यमित्यलं प्रपंचेन तदप्युक्तं ।।
तथा त्रिःसप्तकृत्वोऽपि पत्रवाक्यमुदीरितं । वादिना गूढमन्यच्चाविज्ञातार्थमुपागतं ॥ १॥ . परिषत्प्रतिवादिभ्यामविज्ञातत्वसद्धितः । ततश्चाप्रतिपत्तिः स्यानिग्रहस्थानमंजसा ॥ २ ॥ वक्तुर्विप्रतिपत्तिर्वा मिथ्यार्थप्रतिपादनात् । विसंवादकतायोगात् तदुक्तार्थस्य तत्त्वतः ॥ ३ ॥ स्याद्वादिभिः पुनः पत्रस्यानेकांतसाधने । भवद्विप्रतिपत्तिर्वाक्छलं वा लक्षणान्वयात् ॥४॥ तद्धि संभवतोऽर्थस्य परित्यागेन कल्पनं । यदसंभवतोर्थस्य प्रमाणबलतश्छलं ॥ ५ ॥ न चेह संभवन्नर्थो यौगादिपरिकल्पितः । प्रत्यक्षादिबलासिद्धस्ततोनेकांतसिद्धितः ॥ ६ ॥ भावाभावात्मकं वस्तु बहिरंतश्च तत्वतः । प्रत्यक्षं निश्चिनोत्येव सर्वथा बाधवर्जितं ॥ ७ ॥ वास्तवानेकधर्माधिष्ठानं भावो विशेषतः । विशेषणविशेष्यादिव्यवहारप्रसिद्धितः ॥ ८ ॥ सिद्धमित्यनुमानाच्चानंतधर्मसमाश्रितं । समस्तं वस्तु निर्बाधादागमाच्च प्रमाणतः ॥९॥
इति प्रपंचतः प्रोक्तमन्यत्रेहावगम्यतां । सर्वं पत्रपरीक्षायां सद्भिरित्युपरम्यते ॥ १० ॥ तदेवं पत्रविचारप्रकरणपरिसमाप्तौ विजिगीषोः स्याद्वादिनो वचनं चतुरंगं निराकृताशेषमिथ्याप्रवादप्रसरं श्रिया सम्यग्दर्शनादिलक्षणयोपायभूतयोपमेयानंतज्ञानादिलक्षणलक्ष्मीपर्यंततया सदा जयत्विति जयवादेनासंशयति--
जीयान्निरस्तनिश्शेषसर्वथैकांतशासनं ।
सदा श्रीवर्द्धमानस्य विद्यानंदस्य शासनं ॥१॥ सूक्ताभासो भवति भवतस्तावदुत्तारहेतुः
स्वस्यान्येषां गुरुतमतमश्छिच्च माध्यस्थभाजां । तन्मत्वैवं विपुलमतिभिस्तत्र यत्नो विधेयो
नानंदायाखिलखलधियां तं हि कः कर्तुमीशः ॥ २ ॥ इति श्रीस्याद्वादपतिविद्यानंदस्वामिविरचिता
पत्रपरीक्षा समाप्ता।
शुभंभूयात्म