________________
सनातननग्रंथमालायांमधानपरिणामित्वादचेतनमितीरितं । ज्ञानं यैस्ते कथं न स्युरजातासिद्धहेतवः ॥ १८ ॥ प्रतिज्ञार्थंकदेशस्तु स्वरूपासिद्ध एव नः । शब्दो नाशी विनाशित्वादित्यादिः साध्यसंभिभः॥१९॥ यः साध्यविपरीतार्थाव्यभिचारी सुनिश्चितः । स विरुद्धोवबोद्धव्यस्तथैवेष्टविघातकृत् ॥२०॥ सत्वादिः क्षणिकत्वादौ यथा स्याद्वादिविद्विषां । अनेकांतात्मकत्वस्य नियमात्तेन साधनात् ॥२१॥ पारायं चक्षुरादीनां संघातत्वं प्रसाधयेत् । तेषां द्रव्यविवर्तत्वमेवमिष्टविघातकृत् ॥ २२ ॥ विरुद्धाम च भिन्नोसौ स्वयमिष्टाद्विपर्यये । सामर्थ्यस्याविशेषण भेदे वातिप्रसंगतः ॥ २३ ॥ विवादाध्यासितं धीमद्धेतुकं कृतकत्वतः । यथा शफटमित्यादिविरुद्धोऽनेन दर्शितः ॥२४॥ यथा हि बुद्धिमत्पूर्व जगदेतत्प्रसाधयेत् तथा बुद्धिमतो हेतोरनेकत्वं शरीरिता ॥ २५॥ स्वशरीरस्य कर्तात्मा नाशरीरोऽस्ति सर्वथा । कार्मणेन शरीरेणानादिसंबंधसिद्धितः ॥२६॥
यतः साध्ये शरीरित्वे धीमतो व्यभिचारितां । जगत्कर्तुः प्रपद्येत तेन हेतुः कुतार्किकः इति ॥२७॥ यतश्चैवमक्षपादादेः सर्वथैकांतवादिनः साध्यार्थाविनाभाविलिंगं सर्वथा न संभवत्यसिद्ध तादिदोषदूषितत्वात् तस्मान तस्य पत्रं संभवदर्थके प्रतिष्ठापयितुं शक्यं कदाचिजैनान् प्रति तदुक्तं
ततो नैवाक्षपादादेः पत्रं संभवदर्थकं । प्रतिष्ठापयितुं शक्यं जातु स्याद्वादिनः प्रति ॥ १ ॥ कुत इति चेत्
तत्तत्वाधिगमोपायप्रकाशरहितत्वतः । इत्येतस्य प्रसिद्धत्वाद्धेतोरव्यभिचारतः ॥ १ ॥ __कः पुनरसौ तत्त्वस्याधिगमो नामेति स्वार्थाकारविनिश्चयः सुनिर्वाध इति ब्रूमः निर्विकल्पकदर्शनस्यविनिश्चयस्य संशयस्येव तत्त्वाधिगमत्वानुपपत्तेः क्षणक्षयप्रदर्शनवत् स्वाकारमात्रविनिश्चयस्यापि तद्भावायोगात् वेद्याकारविनिश्चयविरहे स्वाकारविनिश्चयस्याननुभवात् स्वसंवेदनस्यापि वेद्यवेदकाकारात्मनः प्रतीतेः तथाकारमात्रविनिश्चयस्यापि तत्त्वाधिगमत्त्वाघटनात् स्वाकारविनिश्चयमंतरेणार्थीकारविनिश्चयविरोधात् । स्वार्थाकारविनिश्चयस्यापि कालांतरादौ सबाधस्य तद्विरोधात् मरीचिकाविनिश्चये तोयविनिश्चयवत् , देशकालांतरापेक्षयापि सुष्ठु निर्बाधस्य तथाभावसिद्धेरिति प्रपंचितत्वादन्यत्र । तदुक्तं
तत्त्वस्याधिगमस्तावत्स्वार्थाकारविनिश्चयः । सुनिर्बाधोन्यथा तस्य व्यवस्थानुपपत्तितः ॥१॥ तर्हि कस्तस्योपाय इति चेत् कथ्यते साकल्येन प्रमाणं देशतो नयः प्रतिपत्तुस्तत्त्वाधिगमोपायः प्रतीयत एव तस्य शास्त्रे विस्तरतः समर्थितत्वात् नचासौ सर्वथैकांतवादिनामक्षपादादीनामुपपत्तिमास्कंदति तेषां स्वेष्टस्य दृष्टेष्टबाधितत्वात् इतिचिंतितप्रायं प्रपंचतोऽन्यत्र परीक्षादक्षबुद्धिभिर्लक्षणीयं, त एव हि संक्षेपेणाप्युक्तं लक्षयितुं क्षमते तदुक्तं
तस्योपाय पुनः कार्येनैकदेशेन वा मतः । प्रतिपत्तुः प्रमाणं वा समयो वा प्रतीयते ।। १ ।। न चासौ सर्वथैकांतवादिनामुपपद्यते । दृष्टेष्टवाधनात्तेषां स्वेष्टस्येत्यपि चिंतितं ॥२॥
लक्ष्यं प्रपंचतोन्यत्र परीक्षादक्षबुद्धिभिः । संक्षेपतोप्युपक्षिप्तं ते हि लक्षयितुं क्षमाः ॥ ३ ॥ ___ कः पुनस्तत्त्वाधिगमोपायस्य प्रकाश इति चेत् प्रतिपाद्यं प्रति साधुशब्दैस्तस्य स्फुटं प्रदर्शनं प्रकाशः । न चाक्षपादादीनां सर्वथा तद्व्यवस्थास्ति प्रमाणवाक्यासंभवात् । तदप्यमाणि
प्रकाशस्तस्य सद्वाचा प्रतिपाद्यं प्रति स्फुटं । दर्शनं न चैतेषां तद्व्यवस्थास्ति सर्वथा ॥ १ ।। तदनेनैकांतवादिना पत्रवाक्यं, न संभवदर्थकं, तत्तत्त्वाधिगमोपायप्रकाशरहितत्वात् इत्यनुमानं समर्थितं प्रतिपत्तव्यं तथा पत्रवाक्यं गूढमन्यच्चार्थगूढादि वादिना त्रिभिरभिहितं सप्तकृत्वो वा तथैकविंशति वा परिषत्प्रतिवादिभ्यामविज्ञातार्थ यदा तदा तदेवाविज्ञातार्थ नाम निग्रहस्थानमायातं तल्लक्षणस्यान्वयात् तत एव चाप्रतिपत्तिनिग्रहस्थानं तत्त्वतो भवेदेतस्य यदा स्वपत्रवाक्यस्यार्थं व्याचष्टे वादिप्रतिवादिपरिषत्प्रत्यायनाय तदापि वक्तुर्विप्रतिपत्तिर्नाम निग्रहस्थानं तेन मिथ्यार्थप्रतिपादनात् तत्प्रतिपादितार्थस्य विसंवादित्वसिद्धरनेकांतेन बाधनातू स्याद्वादिभिः पश्चात्पत्रवाक्यस्यानेकांतार्थस्य साधने मिथ्यात्वप्रतीतिर्विप्रति