________________
आप्तपरीक्षा। स्य प्रसिद्धस्य केवलिनि परमप्रकर्षसिद्धेः क्षायिकस्य तु हानेरेवानुपलब्धेः कुतस्तत्प्रकर्षों येन व्यभिचारः शक्यते । के पुनः कर्मभूभृतो एषां विपक्षः परमप्रकर्षभाक् साध्यत इत्यारेकायामिदमाह
कर्माणि द्विविधान्यत्र द्रव्यभावविकल्पतः । द्रव्यकर्माणि जीवस्य पुद्गलात्मान्यनेकधा ॥ ११३ ॥ भावकर्माणि चैतन्यविवर्त्तात्मानि भांति नुः । क्रोधादीनि स्ववेद्यानि कथंचिचिदभेदतः ॥ ११४ ॥ तत्स्कंधराशयः प्रोक्ता भूभृतोऽत्र समाधितः ।
जीवाद्विश्लेषणं भेदः संतानात्यंतसंक्षयः ॥ ११५ ॥ जीवं परतंत्रीकुर्वति स परतंत्रीक्रियते वा यस्तानिकर्माणि, जीवेन वा मिथ्यादर्शनादिपरिणामैः क्रियंत इति कर्माणि तानि द्विप्रकाराणि द्रव्यकर्माणि भावकर्माणि च तत्र द्रव्यकर्माणि ज्ञानावरणादीन्यष्टौ मूलप्रकृतिभेदात्तथाऽष्टचत्वारिंशदुत्तरशतमुत्तरप्रकृतिविकल्पात्तथोत्तरोत्तरप्रकृतिभेदादनेकप्रकाराणि तानि घ पुद्गलपरिणामात्मकानि जीवस्य पारतंत्र्यनिमित्तत्वानिगडादिवत्, क्रोधादिभिर्व्यभिचार इति चेन्न तेषां जीवपरिणामानां पारतंत्र्यस्वरूपात्, पारतंत्र्यं हि जीवस्य क्रोधादिपरिणामो न पुनः पारतंत्र्यनिमि तं । ननु च ज्ञानावरणदर्शनावरणमोहनीयांतरायाणामेवानंतज्ञानदर्शनसुखवीर्यलक्षणजीवस्वरूप घातित्वात्पारतंत्र्यनिमित्तत्वं पुनर्नामगोत्रसद्वेद्यायुषां तेषामात्मस्वरूपाघातित्वात्पारतंत्र्यनिमित्तत्वासिद्धेरिति पक्षाव्यापकोहेतुर्वनस्पतिचैतन्ये स्वापवदिति चेन्न तेषामपि जीवस्वरूपसिद्धत्वप्रतिवधिस्वात्पारतंत्र्यनिमित्तत्वोपपत्तेः कथमेवं तेषामघातिकर्मत्वमितिचेज्जीवन्मुक्तिलक्षणपरमाहत्यलक्ष्मी घातिकत्वाभावादिति ब्रूमहे ततो न पक्षाव्यापकोहेतुः, नाप्यन्यथानुपत्तिनियमनिश्चयविकलः पुद्गल परिणामात्मकसाध्यमतरेण पारतंत्र्यतिमित्तत्वस्य साधनस्यानुपपत्तिनियमानर्णयात्तानि च स्वकार्येण यथानाम प्रतीयमानेनानुमीयते दृष्टकारणव्यभिचाराददृष्टकारणसिद्धः । भावकर्माणि पुनश्चैतन्य परिणामात्मकानि क्रोधाद्यात्मपरिणामानां क्रोधादिकर्मोदयनिमित्तानामौदयिकत्वेऽपि कथंचिदात्म नोऽनर्थातरत्वाच्चिद्रूपत्वाविरोधात् ज्ञानरूपत्वं तु तेषां विप्रतिषिद्धं ज्ञानस्यौदयिकत्वाभावाद्धर्माधर्मयोः कर्मरूपयारात्मगुणत्वान्नौदायकवं नापि पुद्गलपरिणामात्मकत्वमिति केचित्तेपि न युक्तिवादिनः कर्मणामात्मगुणत्वे तत्पारतंत्र्यनिमितत्वायोगात्सर्वदाऽऽत्मनो बंधानुपपत्तर्मुक्तिप्रसंगात् । न हि यो यस्य गुणः स तस्य पारतंत्र्यनिमित्तं यथा पृथिव्यादेः रूपादिः, आत्मगुणश्च धर्माधर्मसंज्ञकं कर्म परैरभ्युपगम्यत इति न तदात्मनः पारतंत्र्यनिमित्तं स्यात् तत एव च 'प्रधानविवर्त्तः शुक्लं कृष्णं च कर्म, इत्यपि मिथ्या तस्यात्मपारतंत्र्यनिमित्तत्वाभावे कर्मत्वायोगादन्यथातिप्रसंगात् । प्रधानपारतंत्र्यनिमित्तत्वा. सस्य कर्मत्वमिति चेन्न प्रधानस्य तेन बंधोपगमे मोक्षोपगमे च पुरुषकल्पनावैयर्थ्यात् । वंधमोक्ष फलानुभवनस्य पुरुषे प्रतिष्ठानान्न पुरुषकल्पनावैयर्थ्यमितिचेत्तदेतदसंवद्धाभिधानं प्रधानस्य वंधमोक्षा, पुरुषस्तत्फलमनुभवतीति कृतनाशाकृताभ्यागमप्रसंमात्, प्रधानेन हि कृतौ वंधमोक्षौ न च तस्य तत्फलानुभवनमिति कृतनाशः पुरुषेण तु तौ न कृतौ तत्फलानुभवनं च तस्येत्यकृताभ्यागमः कथं परिहत शक्यः । पुरुषस्य चेतनत्वात्फलानुभवनं, न प्रधानस्याचेतनत्वादितिचेन्न मुक्तात्मनोऽपि प्रधानकृतकर्मफलानुभवनानुषंगात् । मुक्तस्य प्रधानसंसर्गाभावान्न तत्फलानुभवनमितिचेत्तर्हि संसारिणः प्रधानसंसर्गाद्वंधफलानुभवनं सिद्धं तथा च पुरुषस्यैव वंधः सिद्धः प्रधानेन संसर्गस्य वंधफलानुभवननिमित्तस्य बंधरूपत्वाद्वंधस्यैव संसर्ग इति नामकरणात् स चात्मनः प्रधानसंसर्गकारणमंतरेण न संभवतीति पुरुषस्य मिथ्यादर्शनादिपरिणामस्तत्कारणमिति प्रत्येतव्यं । प्रधानपरिणामस्यैव तत्संसर्गकारण