________________
to
सनातनजैनग्रंथमालायांप्रमादकषाययोगविकल्पात्पंचविधस्तस्मिन् सति कर्मणामास्रवात् कर्मागमनहेतोरास्रव इति व्यपदेशात् कर्माण्यस्रवत्यागच्छंति यस्मादात्मनि स आस्रव इति निर्वचनात्सएव हि बंधहेतुर्विनिश्चितः प्राग्विशेषेण । मिथ्याज्ञानस्य मिथ्यादर्शनेंऽतर्भावात् तनिरोधः पुनः कान्यतो देशतो वा तत्र का
न्यतो गुप्तिभिः सम्यग्योगनिग्रहलक्षणाभिर्विधीयते । समितिधर्मानुप्रक्षापरीषहजयचारित्रैस्तु देशत स्तनिरोधः सिद्धः सम्यग्योगनिग्रहस्तु साक्षादयोगकेवलिनश्वरमक्षणप्राप्तस्य प्रोच्यते तस्यैव सकलकर्मभूभृन्निरोधनिबंधनत्वसिद्धेः सम्यग्दर्शनादित्रयस्य चरमक्षणपरिप्राप्तस्य साक्षान्मोक्षहेतोस्तथाभिधानात् पूर्वत्र गुणस्थाने तदभावाद्योगसद्भावात्सयोगकवलिक्षाणकषायोपशांतकषायगुणस्थाने ततोपि पूर्वत्र सूक्ष्मसांपरायानिवृत्तिवादरसांपराये चापूर्वकरणे चाप्रमत्ते च कषाययोगविशिष्टसद्भावात् ततोपि पूर्वत्र प्रमत्तगुणस्थाने प्रमादकषाययोगनिर्णीते संयतासंयतसम्यग्दृष्टीगुणस्थाने प्रमादकषायविशिष्ट योगानां ततोपि पूर्वस्मिन् गुणस्थानत्रये कषायप्रमादाविरतमिथ्यादर्शनविशिष्टयोगसद्भावनिश्चयात् । योगोहि त्रिविधः कायादिभेदात् 'कायवाङ्मनःकर्म योगः, इति सूत्रकारवचनात् कायवर्गणालंबनोह्यात्मप्रदेशपरिस्पंदः काययोगो वाग्वर्गणालंवनो वाग्योगो मनोवर्गणालंवनो मनोयोगः ‘स आस्रव, इति वचनात् मिथ्यादर्शनाविरतिप्रमादकषायाणामास्रवत्वं न स्यादिति न मंतव्यं योगस्य सकलाश्रव व्यापकत्वात्तग्रहणादेव तेषां परिग्रहात्तन्निग्रहे तेषान्निग्रहप्रसिद्धः योगनिग्रहे मिथ्यादर्शनादीनां निप्रहः सिद्ध एवायोगकेवलिनि, तदभावात्कषायनिग्रहे तत्पूर्वीस्रवनिरोधवत्क्षीणकषाये, प्रमादनिग्रहे पूर्वाञवनिरोधवदप्रमत्तादौ । सर्वाविरतिनिरोधे तत्पूर्वीस्रवमिथ्यादर्शननिरोधवच्च, प्रमत्ते संयतासंयते च । मिथ्यादर्शननिरोधे तत्पूर्वानुवनिरोधवच्च सासादनादौ । पूर्वपूर्वास्रवनिरोधे ह्युत्तरास्रवनिरोधः साध्यएव न पुनरुत्तरास्रवनिरोधे पूर्वानवनिरोधस्तत्र तस्य सिद्धत्वात्कायादियोगनिरोधेऽप्येवं वक्तव्यं तत्राप्युत्तरयोगनिरोधे पूर्वयोगनिरोधस्यावश्यंभावात् काययोगनिरोधे हि तत्पूर्ववाजमानस निरोधः सिद्ध एव वाग्योगनिरोधे च मनोयोगनिरोधः पूर्वयोगनिरोधे तूत्तरयोगनिरोधो भाज्यत इति सकलयोगनिरोधलक्षणया परमगुप्त्या सकलास्रवनिरोधः परमसंवरःसिद्धः । समित्यादिभिः पुनरपरः संवरो देशतएवास्रवनिरोधसद्भावात्तत्र हि यो यदास्रवप्रतिपक्षः स तस्य संवर इति यथायोगमागमाविरोधेनाभिधानीयं कर्मागमनकारणस्यास्रवस्य निरोधे कर्मभूभृतामागामिनामनुत्पत्तिसिद्धे रन्यथा तेषामहेतुकत्वापत्तेः सर्वस्य संसारिणः सर्वकर्मागमनप्रसक्तेश्च ततः संवरो विपक्षः कर्मभूभृतामागामिनामिति स्थितं संचितानांतु निर्जरा विपक्षः सा च दिविधानुपक्रमोपक्रमिकी च तत्र पूर्वा यथाकालं संसारिणः स्यात् उपक्रमकी तु तपसा द्वादशविधेन साध्यते संवरवत् , यथैवहि तपसा संचितानां कर्मभूभृतां निर्जरा विधीयते यथाऽऽगामिनां संवरोपीति संचितानां कर्मणां निर्जरा विपक्षः प्रतिपाद्यते । अर्थतस्य कर्मणां विपक्षस्य परमप्रकर्षः कुतः प्रसिद्धो यतस्तेषामात्यंतिकः क्षयः स्यादित्याद
" तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि ।
तारतम्यविशेषस्य सिद्धरुष्णप्रकर्षवत् ॥ ११२ ॥ यस्य तारतम्यप्रकर्षस्तस्य क्वचित्परमः प्रकर्षः सिद्धथति यथोष्णस्य, तारतम्यप्रकर्षश्च कर्मणां विपक्षस्य संवरनिर्जरालक्षणस्यासंयतसम्यग्दृष्टयादिगुणस्थानविशेषेषु प्रमाणतो निश्चीयते तस्मात्परमात्मनि तस्य परमः प्रकर्षः सिद्धयतीत्यवगम्यते । दुःखादिप्रकर्षेण व्यभिचार इति चेन्न दुःखस्य सप्तमनरकभूमौ नरकाणां परमप्रकर्षसिद्धेः सर्वार्थसिद्धौ देवानां सांसारिकसुखपरमप्रकर्षवत् । एतेन क्रोधमानमायालोभानां तारतम्येन व्यभिचारशंका निरस्ता तेषामभव्येषु मिथ्यादृष्टिषु च परमप्रकर्ष सिद्धेस्तत्प्रकर्षोहि परमोऽनंतानुबंधित्वलक्षणस्स च तत्र प्रसिद्धः क्रोधादीनामनतानुबंधिनां तत्र स. द्भावात् । ज्ञानहानिप्रकर्षेण व्यभिचार इति चेन्न तस्यापि क्षायोपशमिफस्य हीयमानतया प्रकृष्यमाण