________________
वर्ति सामर्थ्यशोऽपि मयि । तथापि प्रखरधाळवशंवदात्मतया श्रीमत्प्रकाशकमहोदयैर्मदालसमारोपितभारतया चारोपीदं कार्य मया। मौख्य मामकीनमनवगणयमानोऽवगच्छमानश्च प्राथमिकं कार्यमिदं नियतं क्षमिष्यते विद्वत्परिकरो बहुत्रात्र मत्स्खलितविलोकनात्, इति विराजते प्राज्ञप्रवरसन्निकृष्टे विनतिततिर्महती ___ पूज्यपादश्रीमन्मत्सहोदरादिचक्षुरादिरुङ्निकरकारणकलापे समुपस्थिते मदनुपस्थितावनुष्ठितं भूरिसाहाय्यमेतद्ग्रंथसंशोधनानेहसि महनीयविद्वद्वरपंडितलालारामैस्ततोऽस्म्यहमनुग्रहभाजनं चिरमुक्तपावनात्मनां।
उस्मानाबादमंडनायमानश्रेष्ठिवर्यश्रीमद्वालंचद्रकस्तूरचंद्रात्मजश्रीमन्नेमिचंद्रप्रवादिभिरार्हतमतसमुद्धरणाय चाविर्भावाय तदनवद्यतत्त्वस्वरूपं भुवि, ग्रंथरत्नद्वयप्रकाशाय साकल्येन स्वकरसंपादितपवित्रद्रव्यव्ययम कृत तेषामयं महानुग्रहः । प्रार्थ्यते चेमे पुरस्तादापीत्थमेवोपकृतये सकल जनहितंकरायै ।
उपाध्यायमहनीयपदविभूषितमित्रवरश्रीमत्पण्डितवासुदेवनेमिनाथप्रेषितैकाप्तपरीक्षाप्रतिमूर्तिर्मत्पार्चे । सा च प्रायोतीवशुद्धासीत्ततएव मुद्रितं किलाप्तपरीक्षाभिधं महद्रनमित्येतदनुष्टितसाहाय्याय चिरमनुगृहीतोऽस्मि श्रीमदुपाध्यायानां । .
ईडरपत्तनभारतीभवनादप्येतद्ग्रंथमुद्रणसाहाय्याय पुस्तकद्वयं समुपलब्धं तच्च शुद्धतममासीत् । पुरातनकरविलसितग्रंथनिकरानुस्वारप्रवणपरिपाटीविलोकनतो ग्रंथमालैतद्विलसितग्रंथसाकल्ये पंचमाक्षर मुपेक्षमाणैरस्माभिरनुस्वारसत्कृतिरेवाकृत भूरितया।
प्रस्तावनोल्लेखे समुत्तरनिबंधसंकलने संपादने चैतद् ग्रंथरत्नद्वयस्य यद्यभूत्कुत्रापि मात्राक्षरादिस्स्वलितं मामकीनं सन्नियतं क्षमार्हमेवेति मुहुर्विदुषां पुरस्ताद्विनतशिरसाभ्यर्थना ।
काशी माद्रपदकृष्णा प्रतिपत बीरनिर्वाण संवत् २४३७।
विदुषामनुचरो
गजाधरलालजैनः।