________________
प्रस्तावना।
विद्वन्निकर!
प्रावर्तिष्ट किलाईतदुरवबोधानयद्यसिद्धांताकूतवहिष्कृतात्मभिरुपवर्णयद्भिश्चामलकेवलकलाकलितकेवलिलपनभुवनविलसितानवद्यतत्त्वनिकरं तत्त्वाभासतया, हृदयवेल्लनकारणनास्तिकाधनल्पविगर्हणं कैश्चित् । तत्र नोपागच्छंतीमेऽस्मत्पुरः सर्वथा कलंकभाजनतां । किंवाहर्तमताचलावस्थानभूतामलतत्त्वोपदर्शनप्रत्यूहव्यूहस्वरूपजिनसत्पथगामिनामेवायं महान् दोषः। नियतं चैतत्, वातप्रम्यनवधपरीक्षादक्षमानसोऽपि न हि तदभिमुखानयनमंतरा समंजसतया परीक्षितुं क्षमते। वस्तुतस्तु निखिलमलविरहिताप्तमुखविनिर्गताभिप्रायसाकल्यं समंजसतयानवगच्छमाना अप्यकारणाक्षेपकरणप्रवणा विद्वांसोऽपीमे न तत्त्यबुभुत्सुजनसत्करणसस्न समज्ञाभाजनतामुपढ़ौकते तेषामनालोचितपथगामितया रागद्वेषप्रखरमलमलिनात्मत्वेन च परहितप्रतिपादक वचनवहिष्कृतत्वात् उन्मत्तविलसिताक्षेपोपेक्षयोरिव तत्कृताक्षेपोपेक्षयोर्निर्धारितत्वात् , लोकेपि निर्हेतुकम्परमाक्षिपन्नुपेक्षमाणश्च न हि विदुषां पुरस्तादंशमात्रमपि सन्मतिभाजनतां विभर्ति। अभिमतिरियं किल बलवत्यस्माकं यदीमे विद्वान्सोनुपेक्षमाणा अनाक्षिपंतश्चार्हतमतं व्यलोकिषतादर्शिषत चाईतपथमामिनस्तभ्यो. विचित्रकीटकस्थानभूतकरंडकेभ्यो बहिर्विधाय निर्मलहितप्रतिपादनप्रवणानि नैकविधशास्त्रयाणि तदा नापतदयं जैनधर्मो जैनेतरप्राज्ञनिकरोपेक्षाक्षेपकक्षायां, किं च जैनतत्त्वोपदर्शनसामिग्यभावे आक्षेपोपेक्षादिकरणहेतुमा कुत्रापि प्राक् युक्तिमत्पथाप्रस्थायिपरपूर्वाचार्यदुर्वचनादिस्खलितविलोकनमात्रत एव सर्वथा वेपितमानस्म अप्याहतसरंणिशरणा वयं नाद्यापि तदुर्वचनकलंकं प्रमाष्टुं समुत्सहंते । सहते च सांप्रतिकजैनेतरविवन्निकरमुख निःसृतनास्तिकवाममार्गीत्यादिदुर्वचनतमिस्रपरिहरणप्रवणादित्यायमानशास्त्रराशिं विभ्राणा अपि तेभ्योऽवज्ञा मिति बलवद्वालिशाधिक्यमालिपति जैनानामस्मानतलस्पर्शपारावारे । यावनाहतानवद्यतत्त्वस्वरूपमक्भोत्स्यते आहेतमतबहिर्भूतप्राज्ञसंदोहो न संप्रतिपत्स्यतेतावन्नास्तिकादिजैनेतरविद्वन्निकरमुखनिःसृतदुर्घचनानोपरिमाजनं। अतो दुर्वचनपरिमार्जनाबाधितकारणं, जैनतत्त्वप्रदर्शनमेव जैनेतरविदुषां पुरस्तादस्मद्बुद्धि परामृशति। ततएव दुर्वचनाहतचित्तस्य निम्नलिखितश्रेष्ठिवर्यसाहाय्यतः प्रादुर्भूतं किलेदं सनातनजैनग्रंथमालाभि कठिनतमं कार्य। अत्र च तद्ग्रंथसाकल्यं प्रकाशपदतामुपलप्स्यते यत्स्यात् प्रधानतयाहततत्त्वस्वरूपावबोधक। आशासे शुभेच्छुविद्वत्परिकरो नियतमेतद्ग्रंथमालासमुद्घाटितग्रंथपारावारविलसिततत्त्वस्वरूपामलामृतं स्वात्महितावाप्तिसमीहया लेक्ष्यते। नोपेक्ष्यते च नास्तिकाद्यविनीतजनप्रलपितदुर्वचनकक्षां समाश्रित्य पावनमिदमाहतमतं, आत्माहितसंपादनप्रवणरागद्वेषौ च कृक्ष्यते । आर्हतमतपथगमनशालिनामपि पुरस्तादास्माकाभ्यर्थनेयं यत्तेऽपि दुर्वचनपरिमार्जनकारणार्हततत्त्वोपदर्शनप्रयासाकुलाः स्युः । सांप्रतं प्रथमांके, आप्तप
रीक्षापत्रपरक्षितिग्रंथरत्नद्वयमुपस्थाप्यते, एतद्ग्रंथमालातो विदुषां पुरस्तात् । प्रणेता किलैतदनद्वयस्य स्याद्वादपतिर्विभुःश्रीविद्यानंदस्वामी । महात्मायं कदा कुत्र कतमं पत्तनमात्मीयवैदुष्येण विभूषयामासेल्यवगमिष्यति पाठकपरिकरो महोदयस्यैतज्जीवनविषयकोल्लेखनविलोकनतः।कीदृशमेतद्वैदुष्यं जैनतत्त्वस्वरूपं च कीदृशमिति प्रकटीकरणाय न व्यतीमो वयं विफलं स्वीयं समयं, विज्ञास्यते स्वयमेव विद्वत्सदोहः, एतन्महोदयकरविलसितग्रंथद्वयभरिततत्त्वस्वरूपामृतपानतएव । महात्मैतत्करविलसितभाष्यभूताष्टसहस्रीश्लोकवार्तिकादिविविधग्रंथसंदोहदिवाकरोऽपि विद्योतते जैनधर्ममेनं । संदोहेऽस्मिन् केचन ग्रंथा मुद्रणपथमानीता आनेष्यते च केचनाविलंबितकालएवेति नात्र संशीतिः । संतुष्यति ग्रंथानिमान् विलोक्य प्राज्ञपरिकरः इति दृढ़ीयसी विश्वस्तिश्च ।
न हि वारणपर्याणं वोढुं शक्तो वनायुजः। इति नीतिविद्वचनानुसरणसरणिप्रवेशे प्रखरवैदुष्यमार्तंडमयूखनिकरसकलभुवनविद्योतकविभुः श्रीविद्यानंदी क, कचाहं ज्ञानलवानंतभागेनापि विरहितात्मा मूढधीः इति दुरवबोधग्रंथरमद्वयसंपादनाय न वरी