________________
समातननग्रंथमालायांसद्वाहिणः प्रत्ययस्य भावात् स्वसंतानस्याप्यनिष्टौ संविदद्वैतं कुतः साधयेत् स्वतःप्रतिभासनादिति चेन्न। तथा वासनाविशेषादेव स्वतःप्रतिभासस्यापि भावात् । शक्यं हि वक्तुं स्वतःप्रतिभासवासमावशादेव स्वतःप्रतिभासः संवेदनस्य न पुनः परमार्थत इति न किंचित्पारमार्थिकं संवेदनं सिध्येत् । तथाच स्वरूपस्य स्वतोगतिरिति रिक्ता वाचो युक्तिः । तदनेन कुतश्चिकिचित्परमार्थतः साधयता दूषयता वा साधनज्ञानं दूषणज्ञानं वाऽभ्रांतं सालंबनमभ्युपगंतव्यं । तद्वत्सर्वमबाधितं ज्ञानं सालंबनमिति कथमिहेदमिति प्रत्ययस्याबाधितस्य निरालंबनता येन वासनामात्रहतुरयं स्यात् । नापि निर्हेतुकः कदाचित्कत्वात् । ततोऽस्य विशिष्टः पदार्थो हंतुरभ्युपगंतव्य इति वशषिकाः तेऽप्येवं प्रष्टव्याः । कोऽसौ विशिष्टः पदार्थः समवायः संबंधमात्रं वा ! न तावत्समवायः, तद्धतुकत्व साध्यऽस्यहदमिति प्रत्ययस्यह कुंडे दधीत्यादिना निरस्तसमस्तबाधकेन प्रत्ययेन व्यभिचारित्वात् , तदपीहेदमिति विज्ञानमबाधं भवत्येव । नच समवायहेतुकं तस्य संयोगहेतुकत्वात् । संबंधमात्रे तु तन्निबंधने साध्ये परषां सिद्धसाधनमेव, स्याद्वादिनां सर्वत्रेहेदं प्रत्ययस्याबाधितस्य संबंधमात्रनिबंधनत्वेन सिद्धत्वात् । स्यान्मतं । वैशेषिकाणामबाधितेहेदं प्रत्ययाल्लिंगासामान्यतः संबंधे सिद्धे विशेषणावयवावयविनोगुणगुणिनोः क्रियाक्रियावतो: सामान्यतद्वतोविशेषतद्वतोश्च यः संबंध इहेदं प्रत्ययलिंगः स समवाय एव भविष्यति लक्षणविशेषसंभवात् । तथा हि "अयुतसिद्धानामाधार्याधारभूतानामिहदं प्रत्ययलिंगो यः संबंधः स समवाय इति प्रशस्तकरः" । तत्र इहेदं प्रत्ययलिंगः समवाय इत्युच्यमानेऽतरालाभावनिबंधनेन इह प्रामे वृक्ष इति इहेदं प्रत्ययेन, व्यभिचारात् संबंध इति वचनं । संबंधो हि इहेदं प्रत्ययलिंगो यः स एव समवाय इष्यते नचांतरालाभावो प्रामवृक्षाणां संबंधइति न तेन व्यभिचारः । तथापि इहाकाशे शकुनिरिति इहेदं प्रत्ययेन संयोगसंबंधमात्रनिबंधनेन व्यभिचार इत्याधाराधेयभूतानामिति निगद्यते । न हि यथाऽवयवावयव्यादीनामाधाराधेयभूतत्वमुभयोः प्रसिद्ध तथा शकुन्याकाशयोरौत्तराधर्यायोगात् आकाशस्य सर्वगतत्वन शकुनेरुपर्यपि भावादधस्तादिवति न तत्रंहेदंप्रत्ययेन व्यभिचारः । नन्वाकाशस्यातींद्रियत्वात्तदस्मदादीनामिहेदं प्रत्ययस्यासंभवात् कथं तेन व्यभिचारचोदना साधीयसीति न मंतव्यं । कुतश्चिल्लिंगादनुमितऽप्याकाशे श्रुतिप्रसिद्धर्वा कस्यचिदिहेदमिति प्रत्ययाविरोधात् तत्र, भ्रांतेन वा कषां चिदिहेदमिति प्रत्ययेन व्यभिचारचोदनायाः न्यायप्राप्तत्वात् तत्परिहारार्थमाधाराधयभूतानामिति वचनस्योपपत्तेः । नन्वेवमपीह कुंड दधीति प्रत्ययेनानेकांतस्तस्य संयोगनिबंधनत्वन समवायाहेतु. त्वादिति न शंकनीयमयुतसिद्धनामिति प्रतिपादनात् । नहि यथावयवावयव्यादयोऽयुतसिद्ध स्तथा दधिकुंडादयः तेषां युतसिद्धत्वात् । तह्ययुतसिद्धानामवति वक्तव्यमाधागधेयभूतानामिति वचनस्याभावऽपि व्यभिचाराभावादिति न चेतसि विधेयं । वाच्यवाचकभावनाकाशाकाशशब्दयोय॑भिचारात् ॥ इहाकाशे वाच्ये वाचक आकाशशब्द इति इहेदंप्रत्ययलिंगस्यायुतसिद्धसंबंधस्य बाच्यवाचक भावप्रसिद्धः तेन व्यभिचारोपपत्तेराधाराधेयभूतानामिति वचनस्योपपत्तेः । नन्वाधाराधेयभूतानामयुनसिद्धानामपि संबंधस्य विषयविषयिभावस्य सिद्धेः कुतः समवायसिद्धिः । नह्यात्मनि-इच्छादीनां ज्ञानमयुतसिद्धं न वभति । तथाहमितिज्ञानमाधाराधेयभावस्याप्यत्र भावात् नचाहमिति प्रत्ययस्यात्मविष यस्यायुतसिद्धस्यात्माधारस्य विषयविषयिभावोऽसिद्ध इति कुतस्तयो: समवाय एव सिध्येदिति न वक्तव्यं । आधाराधेयभूतानामेवायुतसिद्धानामवति चावधारणात् । वाच्यवाचकभावो हि युतसिद्धानामनाधाराधयभूतानां च प्रतीयते विषयविषयिभाववत् । ततेऽनेनानवधारितविषयेण न व्यभिचारः संभाव्यते । नन्वेवमयुतीसद्धानामेवेत्यवधारणाद्व्यभिचाराभावादाधाराधेयभूतानामिति वचनमनर्थकं स्यात् आधाराधेयभूतानामेवेत्यवधारणे सत्ययुतसिद्धानामिति वचनवत् ॥ विषयविषयिभावस्य वाच्यवाचकभावस्य च युतसिद्धानामप्यनाधार्याधारभूतानामिव संभवात् तेन व्यभिचाराभावादिति च . अयुतसिद्धभिनानामित्यर्थः ।