________________
आप्तपरीक्षा। महेश्वरस्य हि विज्ञान यदि स्वं न वेदयते स्वात्मनि क्रियाविरोधात्तदा समस्तकारकशक्तिनिकरमपि कथं संवेदयेत् । तथा हि । नेश्वरज्ञानं सकलकारकशक्तिनिकरसंवेदकं स्वासंवेदकत्वात् । यद्यत्वासंवेदकं तत्तन्न सकलकारकशक्तिनिकरसंघेदकं यथा चक्षुः, तथाचेश्वरज्ञानं तस्मान तथेति कुतः समस्तकारकाधिष्ठायकं यतस्तदाश्रयस्येश्वरस्य निखिलकार्योत्पत्ती निमित्तकारणत्वं सिध्येत् असर्वज्ञताया एव तस्यैव प्रसिद्धेः । अथवा यदीश्वरस्य ज्ञानं स्वयमीश्वरेण न संवेद्यत इत्यस्वसंविदितमिष्यते तदा तस्य सर्वज्ञता न स्यात् स्वज्ञानप्रवेदनाभावात् । ननु च सर्व ज्ञेयमेव जानन् सर्वज्ञःकथ्यते न पुननिं तस्याशेयत्वात् । नच तदज्ञाते ज्ञयपरिच्छित्तिनं भवेत् चक्षुरपरिज्ञाने तत्परिच्छेद्यरूपापरिज्ञानप्रसंगात् । करणापरिज्ञानऽपि विषयपरिच्छित्तरविरोधादित्यपि नानुमंतव्यं । सर्वग्रहणेन ज्ञानशेयज्ञातृज्ञप्तिलक्षणस्य तत्त्वचतुष्टयस्य प्रतिज्ञानात् 'प्रमाणं प्रमाता प्रमेयं प्रमितिरिति चतसृषु चैवं विधासु तत्त्वं परिसमाप्यत' इति वचनात् । तदन्यतमापरिज्ञानेऽपि सकलतत्त्वपरिज्ञनानुपपत्तेः कुतः सर्वज्ञतेश्वरस्य 'सिध्येत् । ज्ञानांतरेण स्वज्ञानस्यापि वेदनान्नाऽस्यासर्वज्ञतेति चेत् तार्ह तदपि ज्ञानांतरं परेण ज्ञानेन ज्ञातव्यमित्यभ्युपगम्यमानेऽनवस्था महीयसी स्यात् । सुदूरमप्यनुसृत्य कस्यचिद्विज्ञानस्य स्वार्थावभासन स्वभावत्वे प्रथमस्यैव सहस्रकिरणवत् स्वार्थावभासनस्वभावत्वमुररीक्रियतामलमस्वसविदितज्ञानकल्पनया, स्वार्थव्यवसायात्मकज्ञानाभ्युपगमे च युष्माकं तस्य महेश्वराद्भेदे पर्यनुयोगमाह
तत्स्वार्थव्यवसायात्मज्ञानं भिन्नं महेश्वरात् । कथं तस्यति निर्देश्यमाकाशादिवदंजसा ॥ ३९ ॥ समवायेन तस्यापि तद्भिन्नस्य कुतो मतिः। इहेदमिति विज्ञानादबाध्यायभिचारि तत् ॥ ४० ॥ इह कुंडे दधीत्यादि विज्ञानेनास्तविद्विषा ।
साध्ये संबंधमात्रे तु परेषां सिद्धसाधनं ॥ ४१ ॥ - यदि स्वार्थव्यवसायात्मकं ज्ञानमीश्वरस्याभ्यनुज्ञायते तस्यास्मदादिविशिष्टत्वात् तदा सदीश्वरादिसमभ्युपगंतव्यं । अभेदे सिद्धांतविरोधात् । तथाचाकाशादेरिव कथं तस्यति व्यपदेश्यमिति पर्यनुयामा स्यान्मतं भिन्नमपि विज्ञानं महेश्वरात्तस्यतिव्यपदिश्यते तत्र समवायात, नाकाशादेरिति निर्मिजयते तत्र तस्यासमवायादिति । तदप्ययुक्तं । ताभ्यामीश्वरज्ञानाभ्यां भिन्नस्य समवायस्यापि कुतःप्रतिपत्तिरिति पर्यनुयोगस्य तदवस्थत्वात् । इहेदमिति प्रत्ययविशेषाद्वाधकरहितात् समवायस्य प्रतिपत्तिः सथाहि, इदमिहेश्वरे ज्ञानमितीहदंप्रत्ययो विशिष्टपदार्थहेतुकः सकलबाधकरहितत्वे सतीहेदमिति प्रत्ययविशेषत्वात यो यः सकलबाधकरहितत्वे सति प्रत्ययविशेषः स स विशिष्टपदार्थहेतुको दृष्टः यथा नयेष व्यमित्यन्वयप्रत्ययविशेषः सामान्यपदार्थहेतुकः सकलपदार्थबाधकरहितत्वे सति प्रत्ययविशेषश्रेदमिति प्रत्ययविशेषः तस्माद्विशिष्टपदार्थहेतुक इत्यनुमीयते । योऽसौ विशिष्टः पदाथस्तद्धेतुः स समवायः, पदार्थांतरस्य तद्धतोरसंभवात्तद्धेतुकत्वायोगाचः, न हीह तंतुषुपट इति प्रत्ययस्तंतुहेतुकः, तंतुषु संतव इति प्रत्ययस्योत्पत्तेः नापि पटहेतुकः पटापट इति प्रत्ययस्योदयात् । नापि वासनाविशेषहेतुकः तस्याः कारणरहितायाः संभवाभावात् । पूर्व तथाविधज्ञानस्य तत्कारणत्वे तदपि कुतो हेतोरिति चिन्त्यमेतत पूर्वतद्वासनात इति चन्न । अनवस्थाप्रसंगात् । ज्ञानवासनयोरनादिसंतानपरिकल्पनायां कुतो बहिरर्थसिद्धिरनादिवासनाबलादेव नीलादिप्रत्ययानामपि भावात् । नचैवं विज्ञानसंताननानावसिद्धिः संतानांतरप्राहिणोविज्ञानस्यापि संतानांतरमंतरेण वासनाविशेषादेव तथाप्रत्ययप्रसूतः खान संतानांतर प्रत्ययवत् । नानासंतानानभ्युपगमे चैकज्ञानसंतानसिद्धिरपि कुतः स्यात् । वसंतानाभावेऽपि