________________
सनातन जैनप्रथमालायां
प्रमाणात्कथंचिद्भिन्नाभिन्नं फलमिति
ततस्तस्य सर्वथा भेदे बाधकवचनात् । अभेदवत्संवृत्या प्रमाणफलव्यवहार इत्यप्रातीतिकवचनं परमार्थतः स्वष्टसिद्धिविरोधात् ततः पारमार्थिकप्रमाणं फलं चेष्टसिद्धिलणमभ्यनुज्ञातव्यं । ततः सर्व पुरुषार्थसिद्धिविधानादिति संक्षेपः ।
८०
इति प्रमाणस्य परीक्ष्य लक्षणं विशेषसंख्याविषयं फलं ततः प्रबुध्यतत्त्वं दृढशुद्धदृष्टयः प्रयांतु विद्याफलमिष्टमुच्चकैः ॥ १ ॥
इति श्रीस्याद्वादविद्यापतिश्रीविद्यानंदस्वामिविरचिता प्रमाणपरीक्षा समाप्ता ।