________________
७०
सनातन जैनग्रंथमालायां
ऽन्यदेव प्रत्यभिज्ञानमेकत्वविषयं तदपह्नवे कचिदेकान्वयाव्यवस्थानात् संतानैकत्वसिद्धिरपि न स्यात् । नचैसदगृहीतप्रमाणादप्रमाणमिति शंकनीयं तस्य कथंचिदपूर्वार्थत्वात् । न हि तद्विषयभूतमेकं द्रव्यं स्मृतिप्रत्यक्षग्राह्यं येन तत्र प्रवर्तमानं प्रत्यभिज्ञानं गृहीतग्राहि मन्येत तद्गृहीतातीतवर्तमानविवर्ततादात्म्यात् । द्रव्यस्य कथंचिदपूर्वार्थत्वेऽपि प्रत्यभिज्ञानस्य तद्विषयस्य नाप्रमाणत्वं लैंगिकादेरप्यप्रमाणत्वप्रसंगात् तस्यापि सर्वथैवापूर्वार्थत्वासिद्धेः । संबंधग्राहिविज्ञानविषयात् साध्यादिसामान्यात् कथंचिदभिन्नस्यानुमेयस्य देशकालविशिष्टस्य तद्विषयत्वात् कथंचिदपूर्वार्थत्वसिद्धेः बाधकप्रमाणान्न प्रमाणं प्रत्यभिज्ञानमिति चायुक्तं तद्वाधकस्यासंभवात्। नहि प्रत्यक्षं तद्बाधकं तस्य तद्विषये प्रवृत्त्यसंभवात् । साधकत्ववद्बाधकत्वविरोधात् । यथा हि यद्यत्र विषये न प्रवर्तते न तत्तस्य साधकं बाधकं वा यथा रूपज्ञानस्य रसज्ञानं न प्रवर्तते च प्रत्यभिज्ञानस्य विषये प्रत्यक्षं तस्मान्न तद्बाधकं । प्रत्यक्षं हि न प्रत्यभिज्ञानविषये पूर्वदृष्टदृश्यमानपर्यायव्यापिनि द्रव्ये प्रवर्तते तस्य दृश्यमानपर्यायविषयत्वात् इति नासिद्धं साधनं । एतेनानुमानं प्रत्यभिज्ञानस्य बाधकं प्रत्याख्यातं तस्यापि प्रत्यभिज्ञानविषये प्रवृत्त्ययोगात्, कचिदनुमेयमात्रे प्रवृत्तिसिद्धेः । तस्य तद्विषये प्रवृत्तौ वा सर्वथा बाधकत्वविरोधात् । ततः प्रत्यभिज्ञानं स्वविषये द्रव्ये प्रमाणं सकलबाधारहितत्वात् प्रत्यक्षवत् स्मृतिवद्वा एतेन सादृश्यनिबंधनं प्रत्यभिज्ञानं प्रमाणमावेदितं बोद्धव्यं तस्यापि स्वविषये बोधाकाररहितत्वासिद्धेः । यथैव हि प्रत्यक्षं स्वविषये साक्षात्क्रियमाणे स्मरणं च स्मर्यमाणेऽर्थे बाधाविधुरं तथा प्रत्यभिज्ञानमेकत्र द्रव्ये सादृश्ये च स्वविषये न संभवद्बाधकमिति कथमप्रमाणमनुमन्येमहि । यत्पुनः स्वविषये बाध्यमानं तत्प्रत्यभिज्ञानाभासं यथा प्रत्यक्षाभासं स्मरणाभासं वा न च तस्याप्रमाणत्वे सर्वथा प्रमाणत्वं युक्तं प्रत्यक्षस्याप्यप्रमाणत्वप्रसंगात् । तस्माद्यथा शुक्ले शंखे पीताभासं प्रत्यक्षं तत्रैव शुक्लाभासेन प्रत्यक्षांतरेण बाध्यमानत्वात् अप्रमाणं न पुनः पीते कनकादौ पीताभासं प्रत्यक्षं । तथा तस्मिन्नेव स्वपुत्रादौ तादृशेोयमिति प्रत्यभिज्ञानं सादृश्यनिबंध: स एवायमित्येकत्व निबंधनेन प्रत्यभिज्ञानेन बाध्यमानमप्रमाणं सिद्धं न पुनः सादृश्य एव प्रवर्तमानं स्वपुत्रादिना सादृश्येऽन्यपुत्रादौ तादृशोऽयमिति प्रत्यभिज्ञानं तस्याबाध्यत्वेन प्रमाणत्वात् । एवं लूनपु नर्जातनखँकेशादिरिति सादृश्यप्रत्यवमर्शिप्रत्यभिज्ञानं तत्र तस्याबाध्यमानतया प्रमाणत्वसिद्धेः । तथैव पूर्वा • नुभूते हि हिरण्यादौ प्रदेशविशेषविशिष्ठे स्मरणं विपरीतदेशतया तत्स्मरणस्य बाधकमिति न तत्तत्र प्रमाणं । यथानुभूतप्रदेशे तु तथैव स्मरणं प्रमाणमिति बोद्धव्यं । तत इदमभिधीयते यतो यतोर्थ परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते तत्तत्प्रमाणं यथा प्रत्यक्षमनुमानं वा । स्मरणात् प्रत्यभिज्ञानाच्च अर्थ परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते च तस्मात्प्रमाणं स्मरणं प्रत्यभिज्ञानं चेति । तथा परोक्षमेतदविसंवादित्वात् । अनुमानवत् । साध्यसाधनसंबंधप्राहितर्कवद्वा विशदस्य भावनाज्ञानत्वात् । यावान् कश्चिद्धूमः स सर्वः पावकजन्मैव अपावकजन्मा वा न भवतीति सकलदेशकालव्याप्तसाध्यसाधनसंबद्धाहापोह लक्षणो हि तर्कः प्रमाणयितव्यः तस्य कथंचिदपूर्वार्थत्वात् । प्रत्यक्षानुपलंभगृहीतप्रतिनियतदेशकालसाध्यसा - धनव्यक्तिमात्रग्राहित्वाभावात् गृहीतग्रहणसंभवात् बाधकवर्जितत्वाच्च । नहि तर्कस्य प्रत्यक्षं बाधकं तद्विषये तस्याप्रवृत्तेरनुमानवत् प्रवृत्तौ वा सर्वथा तद्बाधकत्वविरोधात् क्वचिदेव तद्वाधकेोपपत्तेः । यस्य तु तद्बाधकं स तर्काभासो न प्रमाणमितीष्टं शिष्टैः स्मरणप्रत्यभिज्ञानाभासवत् । प्रत्यक्षानुमानाभासवद्वा तथा प्रमाणं तर्कस्ततोऽर्थं परिच्छिद्य प्रवर्तमानस्यार्थक्रियायां विसंवादाभावात् प्रत्यक्षानुमानवदिति प्रतिपत्तव्यं । परोक्षं चेदं तर्कज्ञानं अविसंवादकत्वात् अनुमानवत् । किं पुनरनुमानं नाम ?
साधनात्साध्य विज्ञानमनुमानं ।
तत्र साधनं साध्याविनाभाविनियमनिश्चयैकलक्षणं लक्षणांतरस्य साधनाभासेऽपि भावात् । स्वलक्ष णस्य साधनस्य साधननुपपत्तेः पंचादिलक्षणवत् । नच सपक्षे सत्त्वं पक्षधर्मत्वं विपक्षे चासत्त्वमात्रं साधनलक्षणं पश्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यत्र साधनाभासे तत्सद्भावसिद्धेः । सपक्षे हीतरत्र तत्पुत्रे तत्पुत्रत्वस्य साधनस्य श्यामत्वव्याप्तस्य सत्त्वं प्रसिद्धं । विवादाध्यासिते च तत्पुत्रे पक्षीकृते तत्पुत्रत्वस्य सद्भावात् पक्षधर्मत्वं । विपक्षे वा श्यामे कचिदन्यपुत्रे तत्पुत्रत्वस्याभावात् विपक्षेऽसत्त्वमात्रं च । नच तावता साध्यसाध