________________
प्रमाणपरीक्षा। गुणप्रत्ययं चेति । तत्र भवप्रत्ययं बहिरंगदेवभवनारकभवप्रत्ययनिमित्तत्वात् । तद्भावे भावात् तदभावेऽभावात् तत्तु देशावधिज्ञानमेव । गुणप्रत्ययं तु सम्यग्दर्शनगुणनिमित्तमसंयतसम्यग्दृष्टेः । संयमासंयमगुणहेतुकं संयतासंयतस्य । संयमगुणनिबंधनं संयतस्य । सत्यंतरंगहेतौ बहिरंगस्य गुणप्रत्ययस्य भावे भावात् । तदभावे चाभावात् । तथा मनःपर्ययज्ञानं विकलमतींद्रियप्रत्यक्षं द्वेधा ऋजुमतिविकल्पात् । तत्रर्जुमतिमनःपर्ययज्ञानं निर्वर्तितप्रगुणवाक्कायमनस्कृतार्थस्य परमनोगतस्य परिच्छेदकत्वात्रिविधं । निपुलमतिमनः पर्ययज्ञानं तु निर्वर्तितानिवर्तितप्रगुणाप्रगुणवाक्कायमनस्कृतार्थस्य परमनसि स्थितस्य स्फुटतरमवबोधकत्वात् षट्प्रकार, तथाविधमनःपर्ययज्ञानावरणवीर्यातरायक्षयोपशमावशेषवलात् प्रादुर्भूतत्वात् । सकलमतींद्रियप्रत्यक्षं केवलज्ञानं सकलमोहक्षयात् सकलज्ञानदर्शनावरणवीर्यांतरायक्षयाच समुद्भूतत्वात् सकलवैशद्य सद्भावात् सकलविषयत्वाच्च । तद्वान् कश्चित्पुरुषविशेषो भवत्येव सुनिर्णीतासंभद्बाधकप्रमाणत्वात् । तथा शास्त्रज्ञानेन तद्वानुभयवादिप्रसिद्धः । नचात्रासिद्धं साधनं सर्वातींद्रियप्रत्यक्षवतः पुरुषस्य प्रत्यक्षादिप्रमाणैरबाध्यमानस्य सकलदेशकालपुरुषपरिषदपेक्षयापि सिद्धत्वात् सुखादिसंवेदनस्यापि तथैव प्रमाणत्वोपपत्तेः। अन्यथा कस्यचिदिष्टसिद्धरसंभवात् । इति संक्षेपतो विशदं ज्ञानं सांव्यवहारिकं मुख्यं च प्ररूपितं विस्तरतस्तु तत्त्वार्थालंकारे परीक्षितमिह दृष्टव्यं ।
संप्रति परोक्षमुच्यते-परोक्षमविशदज्ञानात्मकं परोक्षत्वात् यन्नाविशदज्ञानात्मकं तन्न परोक्षं यथातींद्रियप्रत्यक्षं परोक्षं च विवादाध्यासितं ज्ञानं तस्मादविशदज्ञानात्मकं । नचास्य परोक्षत्वमासद्ध-अक्षेभ्यः परावृत्तत्वात् । तथोपात्तानुपात्तपरप्रत्ययापेक्ष परोक्षमिति तत्त्वार्थवार्तिककारैरभिधानात् । उपात्तो हि प्रत्ययः कर्मवशादात्मना करणत्वेन गृहीतः स्पर्शनादिः । ततोऽन्यः पुनर्बहिरंगः सहकारी प्रत्ययोऽनुपात्तः शब्दलिंगादिः तदपेक्षं ज्ञानं परोक्षमित्यभिधीयते । तदपि संक्षेपतो द्वधा मतिज्ञानं श्रुतज्ञानं चेति
आये परोक्षं इति वचनात् । मतिश्रुतावधिमनःपर्ययकेवलानि हि ज्ञानं । तत्राये मतिश्रुते सूत्रपाठापेक्षया लक्ष्येते ते च परापेक्षतया परोक्षे प्रतिपादिते । परानपेक्षाण्यवधिमनःपयर्यकेवलानि यथा प्रत्यक्षाणीति । तत्रावग्रहादिधारणापर्यंत मतिज्ञानमपि देशतोवैशद्यसद्भावात्सांव्यवहारिकं, इंद्रियप्रत्यक्षमतींद्रियप्रत्यक्षं चाभिधीयमानं न विरुध्यते ततः शेषस्य मतिज्ञानस्य स्मृतिसंज्ञाचिंताभिनिबोधलक्षणस्य श्रुतस्य च परोक्षत्वन्यवस्थितेः । तदुक्तमकलंकदेवैः
प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः।
परोक्षं शेषविज्ञानं प्रमाणमिति संग्रहः ॥१॥ तत्र तदित्याकारानुभूतार्थविषया स्मृतिः अनिंद्रियप्रत्यक्षं विशदत्वात् सुखादिसंवेदनवदित्येके तद. सत् । तस्मात्तत्र वैशद्यासिद्धेः पुनर्भावयतो वैशद्यप्रतीते वनाज्ञानत्वात् तस्य च भ्रांतत्वात स्वप्नज्ञानवत् । पूर्वानुभूतेऽतीतेऽर्थे वैशद्यासंभवात् स्मृतिः परोक्षमेव श्रुतानुमितस्मृतिवत् इत्यपरे तदित्युल्लेखस्य सर्वस्यां स्मृतौ सद्भावात् । सा च प्रमाणमावसंवादकत्वात् प्रत्यक्षवत् यत्र तु विसंवादः सा स्मृत्याभासा प्रत्यक्षाभासवत् । तथा तदेवेदामत्याकारं ज्ञानं संज्ञा प्रत्याभज्ञा तादृशमेवेदमित्याकार वा विज्ञान संज्ञोच्यते । तस्या एकस्वसादृश्यविषयत्वाद्वैविध्योपपत्तेः । द्विविधं हि प्रत्यभिज्ञानं तदेवेदमित्येकत्वनिबंधनं । तादृशमेवेदति सादृश्यनिबंधनं च । ननु च तदेवेत्यतीतप्रतिभासस्य स्मरणरूपत्वात् इदमिति संवेदनस्य प्रत्यक्षरूपत्वात् संवेदनद्वितयमेवैतत् तादृशमेवेदमिति स्मरणप्रत्यक्षसंवेदनद्वितयवत् ततो नैकं ज्ञानं प्रत्यभिज्ञाख्यां प्रतिपद्यमानं संभवतीति कश्चित् सोऽपि न संवेदनविशेषविपश्चित् स्मरणप्रत्यक्षजन्यस्य पूर्वोत्तरविवर्तवर्येकद्रव्यविषयस्य प्रत्यभिज्ञानस्यैकस्य सुप्रतीतत्वात् । न हि तदिति स्मरणं तथाविधद्रव्यव्यवसायात्मकं तस्यातीतविवर्तमात्रगोचरत्वात् । नापीदमिति संवेदनं तस्य वर्तमानविवर्तमात्रविषयत्वात् । ताभ्यामुपजन्यं तु सकलज्ञानं तदनुवादपुरस्सरं द्रव्यं प्रत्यवमृशत् । ततो
मीमांसकाः। २सावादिनः।