SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ લલિતવિસ્તરા ભાગ-૩ भ्यामनेकधाऽवस्थानेनालब्धपारत्वात् सागर इव संसारसागरः, तस्मात् तारयति अपनयतीत्यर्थः, नरं व नारिं वा पुरुषं वा स्त्रियं वा, पुरुषग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थं, स्त्रीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम्। यथोक्तं यापनीयतन्त्रे- ‘णो खलु इत्थि अजीवो, ण यावि अभव्वा, ण यावि दंसणविरोहिणी, णो अमाणुसा, णो अणारिउप्पत्ती, णो असंखेज्जाउया, णो अइकूरमई, णो ण उवसन्तमोहा, णो ण सुद्धाचारा, णो असुद्धबोंदी, णो ववसायवज्जिया, णो अपुव्वकरणविरोहिणी, णो णवगुणठाणरहिया, णो अजोग्गा लद्धीए, णो अकल्लाणभायणं ति कहं न उत्तमधम्मसाहिग' त्ति। तत्र 'न खलु' इति 'नैव स्त्री अजीवो वर्त्तते किन्तु जीव एव, जीवस्य चोत्तमधर्मसाधकत्वाविरोधस्तथादर्शनात्। न जीवोऽपि सर्व उत्तमधर्मसाधको भवति, अभव्येन व्यभिचारात्, तद्व्यपोहायाह 'न चाप्यभव्या' जातिप्रतिषेधोऽयम्। यद्यपि काचिदभव्या तथापि सर्ववाभव्या न भवति, संसारनिर्वेदनिर्वाणधर्माद्वेषशुश्रूषादिदर्शनात्। भव्योऽपि कश्चिद्दर्शनविरोधी यो न सेत्स्यति तनिरासायाह 'नो दर्शनविरोधिनी', दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्त्वार्थश्रद्धानरूपं, न तद्विरोधिन्येव, आस्तिक्यादिदर्शनात्। दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव, तत्प्रतिषेधायाह 'नो अमानुषी', मनुष्यजातौ भावात् विशिष्टकरचरणोरुग्रीवाद्यवयवसन्निवेशदर्शनात्। मानुष्यप्यनार्योत्पत्तिरनिष्टा, तदपनोदायाह 'नो अनार्योत्पत्तिः' आर्येष्वप्युत्पत्तेः, तथादर्शनात्। आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृतसाधनायेत्येतदधिकृत्याह 'नो असंख्येयायुः' सर्वेव, संख्येयायुर्युक्ताया अपि भावात्, तथादर्शनात्। संख्येयायुरपि अतिक्रूरमतिः प्रतिषिद्धा तन्निराचिकीर्षयाह ‘नातिक्रूरमतिः'। सप्तमनरकायुर्निबन्धनरौद्रध्यानाभावात्, तद्वत्प्रकृष्टशुभध्यानाभाव इति चेत् ? न, तेन तस्य प्रतिबन्धाभावात्, तत्फलवदितरफलभावेनानिष्टप्रसङ्गात्। अक्रूरमतिरपि रतिलालसाऽसुन्दरैव, तदपोहायाह-'नो न उपशान्तमोहा', काचिदुपशान्तमोहापि संभवति, तथादर्शनात्। उपशान्तमोहापि अशुद्धाचारा गर्हिता, तत्प्रतिक्षेपायाह-'नो न शुद्धाचारा' काचित् शुद्धाचारापि भवति, औचित्येन परापकरणवर्जनाद्याचारदर्शनात्। शुद्धाचारापि अशुद्धबोन्दिरसाध्वी तदपनोदायाह 'नो अशुद्धबोन्दिः'; काचित् शुद्धतनुरपि भवति, प्राक्कानुवेधतः संसञ्जनाद्यशुद्ध्यदर्शनात् कक्षास्तनादिदेशेषु। शुद्धबोन्दिरपि व्यवसायवर्जिता निन्दितैव, तन्निरासायाह-'नो व्यवसायवर्जिता' काचित् परलोकव्यवसायिनी, शास्त्रात् तत्प्रवृत्तिदर्शनात्। सव्यवसायाप्यपूर्वकरणविरोधिनी विरोधिन्येव, तत्प्रतिषेधमाह 'नो अपूर्वकरणविरोधिनी', अपूर्वकरणसंभवस्य स्त्रीजातावपि प्रतिपादितत्वात्। अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेष्टसिद्धये
SR No.022465
Book TitleLalit Vistara Part 03
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages292
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy