________________
ललितविस्तरा भाग-3
૧૫૨
શુદ્ધવાદની આપત્તિ નથી; કેમ કે સર્વ જ સર્વજ્ઞનું તે પ્રકારે તપૂર્વકપણું છે=વચનપૂર્વકપણું છે, પ્રવાહથી વળી, ઈચ્છાય છે જ=અનાદિ શુદ્ધ ઈચ્છાય છે જ, એ રીતે અમને પણ=સ્યાદ્વાદીને પણ, તત્ત્વથી અપૌરુષેય જ વચન નથી એ અન્યત્ર=સર્વજ્ઞ સિદ્ધિ આદિ ગ્રંથમાં, વિસ્તાર કરાયો छे, मेथी यहीं प्रयास नथी. ॥१॥
पंडा :
'ननु' इति पराक्षमायाम्, 'एवमिति पौरुषेयत्वे, सर्वज्ञ एव, अस्य = वचनस्य, वक्ता, सदा सर्वकालं, न, अन्यः =तद्व्यतिरिक्तः, कुत इत्याह- (अन्यथा) तदसाधुत्वप्रसङ्गात् = तस्य वचनस्य, असाधुत्वप्रसङ्गाद्अप्रामाण्यप्राप्तेः, वक्तृप्रामाण्याद्धि वचनप्रामाण्यम्, इति = अस्माद्धेतोः, सः = सर्व्वज्ञः, 'अवचनपूर्वक एव कश्चित् ' चिरतरकालातीतो, नीतितः = अन्यथाऽपौरुषेयं वचनं स्यादिति नीतिमाश्रित्य 'अभ्युपगन्तव्य' इति गम्यते। अत्रोत्तरं, ननु = वितर्कय, बीजाङ्कुरवदेतदित्यनेन ग्रन्थेन, प्रत्युक्तं = निराकृतमेतत् परिभावनीयं तु यत्नतः; तत्र सम्यक्परिभाविते पुनरित्थमुपन्यासायोगात् ।
न च जैनानां क्वचिदेकान्त इत्यपि प्रतिपादयन्नाह
'तथे 'ति पक्षान्तरसमुच्चये, अर्थज्ञानशब्दरूपत्वाद्, अर्थः = सामायिकपरिणामादिः, ज्ञानं तद्गतैव प्रतीतिः, शब्दो = वाचकध्वनिः, तद्रूपत्वात् = तत्स्वभावत्वाद्, अधिकृतवचनस्य = प्रकृतागमस्य, ततः शब्दवचनापेक्षया = शब्दरूपं वचनमपेक्ष्य, न= नैव, अवचनपूर्वकत्वेऽपि, कस्यचित् सर्व्वदर्शिनो, दोष:- अनादिशुद्धवादापत्तिलक्षणः, समर्थकमाह- मरुदेव्यादीनां प्रथमजिनजननीप्रभृतीनां स्वयमेव पक्वभव्यत्वानां, तथाश्रवणात्= शब्दरूपवचनानपेक्षयैव सर्वदर्शित्वश्रवणात् । अथ 'तप्पुव्विया अरहये 'तिवचनं समर्थयन्नाह - वचनार्थप्रतिपत्तित एव=वचनसाध्यसामायिकाद्यर्थस्य ज्ञानानुष्ठानलक्षणस्य; प्रतिपत्तित एव - अङ्गीकरणादेव, नान्यथा, तेषामपि = मरुदेव्यादीनाम्, ‘अपि’शब्दादृषभादीनां च, तथात्वसिद्धेः = सर्वदर्शित्वसिद्धेः, तत्त्वतो - निश्चयवृत्त्या, न तु व्यवहारतोऽपि, तत्पूर्वकत्वं = वचनपूर्वकत्वमिति ।
एतदेव भावयति
भवति च विशिष्टक्षयोपशमादितः = विशिष्टाद्दर्शनमोहनीयादिगोचरात् क्षयक्षयोपशमोपशमात्, मार्गानुसारिबुद्धेः=सम्यग्दर्शनादिमोक्षमार्गानुयायिप्रज्ञस्य वचनम् = उक्तलक्षणम्, अन्तरेणापि = विनापि, तदर्थ - प्रतिपत्तिः=वचनार्थप्रतिपत्तिः, कुत इत्याह- क्वचित् प्रज्ञापनीये, तथादर्शनात् = वचनार्थप्रतिपत्तिदर्शनात्, कुत इदमित्याह- संवादसिद्धेः = यदिदं त्वयोक्तं तन्मया स्वत एव ज्ञातमनुष्ठितं वेत्येवं प्रकृतार्थाव्यभिचारसिद्धेः, एवं च वचनपौरुषेयत्वे, व्यक्त्यपेक्षया = एकैकं सर्वदर्शिनमपेक्ष्य, नाऽनादिशुद्धवादापत्तिः = न कश्चिदेकोऽनादिशुद्धः सर्वदर्शी वक्ता आपन्नः, कुत इत्याह- सर्वस्य सर्वदर्शिनः, तथा - पूर्वोक्तप्रकारेण तत्पूर्वकत्वात्= वचनपूर्वकत्वात्, प्रवाहतस्तु = परंपरामपेक्ष्य, इष्यत एवानादिशुद्धः, प्रवाहस्यानादित्वाद्, इति = एवं, 'न