________________
૧૪
લલિતવિસ્તરા ભાગ-૧ તે કારણથી રાક્ષની પ્રાપ્તિ કર્યા પછી કાળને છોડીને સમ્યગ્દર્શનની પ્રાપ્તિમાં વિલંબન નથી તે કારણથી, આ ચક્ષની પ્રાપ્તિ, ધર્મકલ્પવૃક્ષના અવંધ્ય બીજભૂત છે એ પ્રકારે પરિભાવન કરવું જોઈએ, અને અહીં=સંસારમાં, આ ચક્ષુ ઈન્દ્રિય પૂર્વમાં કહ્યું એની જેમ=અભયદયાણં પદમાં કહ્યું એની જેમ, ભગવાનથી પ્રાપ્ત થાય છે, એથી ચક્ષને આપે છે, એથી ભગવાન ચક્ષને मापनास छे. ॥१७॥
es:___ 'तद्' इत्यादि, यत इन्द्रियत्वेन सामान्यत इत्थं चक्षुः, तत्-तस्माद् अत्र-सूत्रे, चक्षुर्विशिष्टमेव न सामान्यम्, आत्मधर्मरूपम् उपयोगविशेषतया जीवस्वभावभूतं, विशेष्यमेवाह-तत्त्वावबोधनिबन्धनं जीवादिपदार्थप्रतीतिकारणं, या श्रद्धा-रुचिः धर्मप्रशंसादिरूपा, सा स्वभावो-लक्षणं, यस्य तत्तथा, गृह्यते अङ्गीक्रियते।
ननु ज्ञानावरणादिक्षयोपशम एव चक्षुष्टया वक्तुं युक्तः, तस्यैव दर्शनहेतुत्वात्, न तु मिथ्यात्वमोहक्षयोपशमसाध्या तत्त्वरुचिरूपा श्रद्धेत्याशङ्क्याह श्रद्धाविहीनस्य-तत्त्वरुचिरहितस्य, अचक्षुष्मत इव अन्यस्येव, रूपमिव-नीलादिवर्ण इव, यत् तत्त्वं जीवादिलक्षणं, तस्य दर्शनम् अवलोकनं, तस्य अयोगात्= अनुपपत्तेः, भवत्वेवं, तथाप्यसावन्यहेतुसाध्या स्याद्, न भगवत्प्रसादसाध्येत्याह- न च-नैव, इयं-तत्त्वरुचिरूपा श्रद्धा, मार्ग=सम्यग्दर्शनादिकं मुक्तिपथम् अनुकूलतया, सरतिगच्छतीत्येवंशीला, मार्गानुसारिणी सुखम्= अपरिक्लेशं यथाकथञ्चिदित्यर्थः अवाप्यते।
भवतु भगवत्प्रसादसाध्येयं, परं स्वसाध्यं प्रति न नियतो हेतुभावोऽस्याः स्यादित्याहसत्यां च-विद्यमानायां च, अस्याम् उक्तरूपश्रद्धायां, भवति-जायते, एतत् तत्त्वदर्शनं, नियोगतः= अवश्यंभावेन, निदर्शनमाह- कल्याणचक्षुषीव-निरुपहतायामिव दृष्टी, सद्रूपदर्शनं सतः-सद्भूतस्य, रूपस्य, दर्शनम् अवलोकनं, न तु काचकामलाद्युपहत इव चक्षुषि अन्यथेति, एतदेव भावयति- न हि-नैव, अत्र-मार्गानुसारिश्रद्धासाध्यदर्शने, प्रतिबन्यो-विष्कम्भो, नियमेन अवश्यंभावेन, कुतश्चिदिति गम्यते, किं सर्वथा? नेत्याह-ऋते विना, कालात्, काल एव ह्यत्र प्रतिबन्धक इति भावः, इति–एवं, निपुणसमयविदो= निश्चयनयव्यवहारिणो ब्रुवते। ननु कालेऽपि प्रतिबन्धके कथमुच्यते 'न ह्यत्र प्रतिबन्धो नियमेने त्याहअयं च कालप्रतिबन्धः 'अप्रतिबंध एव', कुत इत्याह- 'तथेति' दर्शनरूपतया तस्याः श्रद्धायाः, भवनं परिणमनं, तद्भवनं, तत्र उपयोगित्वात् व्यापारवत्त्वात् कालस्या व्यतिरेकमाह-तम्-कालम्, अन्तरेण विना, तत्सिद्ध्यसिद्धेः तस्य-दर्शनस्य स्वभावलाभानिष्पत्तेः, कुत इत्याह- विशिष्टस्य-विचित्रसहकारिकारणाहितस्वभावातिशयस्य, उपादानहेतोरेव-परिणामिकारणस्यैव, तथापरिणतिस्वभावत्वात् तथापरिणतिः= कार्याभिमुखपरिणतिः(णामः प्र०...), सैव स्वभावो यस्य कालस्य तत्तथा, तद्भावस्तत्त्वं, तस्माद् द्रव्यपर्यायत्वात्कालस्य। 'उक्तवदिति-प्राक्सूत्राभिहिताभयधर्मवत्।।१६।।