________________
૨૨3
ભગવાનરૂપ વસ્તુના એક-અનેક સ્વભાવત્વની સિદ્ધિ અભાવ છે=તે સ્વરૂપે સ્તુતિ કરવાથી ફલનો અભાવ છે.
વળી, વસ્તુનું એક-અનેક સ્વભાવપણું વસ્તુ અંતરના સંબંધથી આવિભૂત અનેક સંબંધિરૂપપણાથી છે, જેમ પિતા-પુત્ર-ભાઈ-ભાણેજ આદિથી વિશિષ્ટ એક પુરુષ છે અથવા જેમ पूर्व-मपर, wiतरित-मनतरित, दूर-मासी, नवो-नो, समर्थ-असमर्थ, पEdgd-यारवाभिs, લબ્ધ, ખરીદાયેલો, હરણ કરાયેલો આદિ રૂપવાળો ઘટ છે અને અહીં સંસારમાં, સકલ લોકસિદ્ધ પિતા આદિનો વ્યવહાર છે અને પરસ્પર ભિન્ન છે; કેમ કે તેવા પ્રકારની પ્રતીતિ છે અને આ જ હેતુથીeતેવા પ્રકારની પ્રતીતિરૂપ હેતુથી, તત્ તત્ત્વ નિબંધન છે=આ પિતા છે આ પુત્ર છે ઈત્યાદિ વાસ્તવિક વ્યવહારનું કારણ છે. नि :इयं च चित्रा संपन्न स्याद्वादमन्तरेण संगतिमङ्गतीति तत्सिद्ध्यर्थमाह
एकानेकस्वभाववस्तुप्रतिबद्धश्च द्रव्यपर्यायस्वभावार्हल्लक्षणवस्तुनान्तरीयकः पुनः, अयम् अनन्तरोक्तः, प्रपञ्चः चित्रसंपदुपन्यासरूपः, इति एतत्, सम्यगालोचनीयम् अन्वयव्यतिरेकाभ्यां यथेदं वस्तु सिध्यति तथा विमर्शनीयम् ।
विपक्षे बाधामाह- अन्यथा-एकानेकस्वभावाभावेऽर्हता, कल्पनामात्र कल्पना एव केवला निर्विषयबुद्धिप्रतिभासरूपा, एताः=चित्राः सम्पदः, ततः किमत आह इति=अतः कल्पनामात्रत्वात्, फलाभावः=मिथ्यास्तवत्वेन सम्यक्स्तवसाध्यार्थाभावः; न चैवं, सफलारम्भिमहापुरुषप्रणीतत्वादासाम् इत्येतदुपन्यासान्यथानुपपत्त्यैव चित्ररूपवस्तुसिद्धिरिति ।
पुनः सामान्येन चित्ररूपवस्तुप्रत्यायनाय प्रयोगमाह'एकानेकस्वभावत्वं तु वस्तुनः' इति साध्यनिर्देशः, अत्र हेतुमाह- 'वस्त्वन्तर मिति, वस्त्वन्तरैः साध्यधर्मिव्यतिरिक्तैः, यः सम्बन्धः तत्स्वभावापेक्षालक्षणः, तेन आविर्भूतानि अनेकानि-नानारूपाणि, सम्बन्धीनि सम्बन्धवन्ति रूपाणि स्वभावात् यस्य तत्तथा तस्य भावस्तत्त्वं तेन। ___ दृष्टान्तमाह-पितृपुत्रभ्रातृभागिनेयैः, 'आदि'शब्दात् पितृव्यमातुलपितामहमातामहपौत्रदौहित्रादिभिर्जनप्रतीतैः, विशिष्टः उपलब्धसंबन्धो यः, एको-द्रव्यतया, पुरुषः तथाविधपुमान्, तस्येव, अस्यैव दृढत्वसंपादनार्थं पुनर्दृष्टान्तान्तरमाह- 'पूर्वेत्यादि, तत्तदपेक्षया पूर्वापरादिपञ्चदशरूपः, 'आदि'शब्दादणुमहदुच्चनीचाद्यनेकरूपश्च यो घटस्तस्येव वा एकानेकस्वभावत्वमिति, हेतुसिद्ध्यर्थमाह- सकललोकसिद्धश्च अविगानेन प्रवृत्तेः, इह-जगति, पित्रादिव्यवहारः=तथाविधाभिधानप्रत्ययप्रवृत्तिरूपः, भिन्नश्च-पृथक् (च), मिथः= परस्परम्, अन्यो हि पितृव्यवहारोऽन्यश्च पुत्रादीनाम्, कुत इत्याह- तथा=मिथो भिन्नतया, प्रतीतेः सर्वत्र सर्वदा सर्वेः प्रत्ययात् तत्तत्त्वनिबन्धनश्च-तस्य-पित्रादितया व्यवहरणीयस्य, तत्त्वं-पित्रादिरूपत्वं, निबन्धनं