________________
ધમ્મસારહીણ
८G
પ્રકારે, થાય છે જ; કેમ કે તેના આધસ્થાનની પણ આ પ્રકારે પ્રવૃત્તિ છે=ધર્મના આધસ્થાનની પણ ધર્મસારથિત્વને અનુકૂળ પ્રવૃત્તિ છે. કેમ આદ્યસ્થાનની આવા પ્રકારની પ્રવૃત્તિ છે ? તેમાં હેતુ કહે છે –
અવંધ્યબીજાણું છે ધર્મના આધસ્થાનનું ધર્મના સારથિપણાનું અવંધ્યબીજાણું છે, દિ=જે કારણથી, સુસંવૃત્ત સુવર્ણના અને રત્નના કરંડિયાની પ્રાપ્તિ તુલ્ય પ્રથમ ધર્મસ્થાનની પ્રાપ્તિ છે, એ પ્રમાણે અન્યો વડે પણ સ્વીકારાયેલું હોવાથી ઘર્મનું આધસ્થાન ધર્મસારથિત્વનું અવંધ્યબીજ છે એમ અન્વય છે, સર્વ કથનનું તવંથી નિગમન કરે છે – આ રીતે ધર્મના સારથિ ભગવાન छे. ॥२३॥ les:इत्थं प्रथमहेतुसिद्धिमभिधाय द्वितीयसिद्ध्यर्थमाहएतेन-सम्यक्प्रवर्तनयोगसाधनेन, किमित्याह- पालनाऽयोगः=पालनस्यायोगः अघटनं, प्रत्युक्तो निराकृतः, कुत इत्याह- सम्यक्प्रवर्त्तनस्य उक्तरूपस्य, निर्वहणफलत्वात्=पालनफलत्वात्।
अथ कथमयं नियमो यदुत- पालनफलमेव सम्यक्प्रवर्त्तनमित्याह- न-नैव, अन्यथा पालनाऽभावे, सम्यक्त्वं सम्यग्भावः प्रवर्तनस्य, इति-एवं, समयविदः प्रवचनवेदिनो वदन्ति।
अथ तृतीयहेतुसिद्धिमाह- एवमिति यथा सम्यक्प्रवर्तनपालनाख्यहेतुद्वयाद्धर्मसारथित्वं तथा, दमनयोगेनापीत्यर्थो, दमनयोगेन-सर्वथा स्वायत्तीकरणेन, अमुमेव साधयन्नाह- दान्तो-वशीकृतो हिः स्फुटम्, एवं वक्ष्यमाणेन अव्यभिचारीकरणस्वकार्यनियोगस्वात्मीभावनयनरूपप्रकारत्रयेण, धर्मः, कयेत्याहकर्मवशितया कर्म-चारित्रमोहादि, वशि-वश्यम् अबाधकत्वेन, येषां ते तथा, तद्भावस्तत्ता तया, तदेव प्रकारत्रयमाह- कृतो-विहितः, अव्यभिचारी-अविसंवादकः, कथमित्याह- अनिवर्तकभावेन-आफलप्राप्तेरनुपरमस्वभावेन, नियुक्तो व्यापारितः, स्वकार्ये कृत्स्नकर्मक्षयलक्षणे, कयेत्याह- स्वाङ्गोपचयकारितया स्वाङ्गानां-मनुजत्वार्यदेशोत्पन्नत्वादीनामधिकृतधर्मलाभहेतूनाम्, उपचयः-प्रकर्षः, तत्कारितया, नीतः प्रापितः, स्वात्मीभावं-निजस्वभावरूपं, कथमित्याह- तत्प्रकर्षस्य-धर्मप्रकर्षस्य, यथाख्यातचारित्रतया, आत्मरूपत्वेन-जीवस्वभावत्वेन, इति।
आह-इत्थं धर्मसारथित्वभवने को हेतुरित्याहभावधर्माप्तौ-क्षायोपशमिकादिधर्मलाभे, हिः स्फुटं, भवत्येव=न न भवति, एतत् धर्मसारथित्वं, एवं सम्यक्प्रवर्तनयोगादिप्रकारेण, कुत इत्याह- तदाद्यस्थानस्यापि-धर्मप्रशंसादिकालभाविनो धर्मविशेषस्यापि, किं पुनर्वरबोधेः प्राप्तौ? एवंप्रवृत्तेः धर्मसारथित्वकरणेन भगवतां प्रवृत्तेः, कुत इत्याह- अवन्ध्यबीजत्वात् अनुपहतशक्तिकारणत्वाद्धर्मसारथित्वं प्रति, न हि सर्वथा कारणेऽसत्कार्यमुत्पद्यत इति वस्तुव्यवस्था।