________________
तत्त्वबोधविधायिनी व्याख्या ।
९५ यदप्युक्तम् । 'पक्षत्वनिश्चये सति हेतोरनुमानं प्रवर्तते; नच सर्ववित् कुतश्चित्पमाणात्सिद्धः' इत्यादि। तदप्ययुक्तम् । यतो यदि सर्वविदो धर्मित्वं क्रियेत, तदा तस्यासिद्धत्वात्स्यादप्यपक्षधर्मत्वलक्षणं दूषणम् ; यदा तु वचनविशेषस्य धर्मित्वं तस्य विशिष्टकारणपूर्वकत्वं साध्यत्वेनोपक्षिप्तं, तदा तत्र तद्विशेषत्वादिलक्षणो हेतुरुपादीयमानः कथमपक्षधर्मः स्यात् । नचापक्षधर्मादपि हेतोरुपजायमानमनुमानं प्रमाणं भवताऽभ्युपगच्छता पक्षधर्मत्वाभावलक्षणं दूषणमासञ्जयितुं युक्तम् ।
अन्यथा" पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताऽनुमा ।
सर्वलोकप्रसिद्धा, न पक्षधर्ममपेक्षते” ॥१॥ इत्याद्यपक्षधर्महेतुसमुत्थानुमानप्रामाण्यप्रतिपादनं भवतोऽप्ययुक्तं स्यात् । यदप्यभ्यधायि । 'सर्वज्ञसत्तायां साध्यायां त्रयीं दोषजाति हेतुर्नातिवर्त्तते' इत्यादि । तत्र स्यादृप्ययं दोषः, यदि तत्सत्ता साध्यत्वेनाभ्युपगम्यते, यावता पूर्वोक्तप्रकारेण वचनविशेषस्य विशिष्टकारणपूर्वकत्वं साध्यमित्युक्तम् ; तत्र चास्य दोषस्योपक्षेपोऽयुक्त एव। यदप्यभ्यधायि । यद्यनियतः कश्चित्सकलपदार्थज्ञः साध्योऽभिप्रेत इत्यादि। तदप्यसङ्गतमेव।यतो नास्माभिःप्रतिनियत एव कश्चित्सर्वज्ञोऽनुमानात्साध्यते, किन्तु विशिष्टकारणपूर्वकत्वं विशिष्टशब्दस्य । तच्च स्वसाध्यव्याप्तहेतुबलासाध्यमिणि सिद्धिमासादयहेतुपक्षधर्मलबलात्प्रतिनियतसर्वज्ञपूर्वकत्वेनैव सि. द्विमासादयति । नच तत एव हेतोरन्यस्यापि सर्वज्ञसिद्धेः, अन्यागमाश्रयणमपि भवतां प्रसज्यते इति दूषणम् ।अन्यागमानां दृष्टविषय एव प्रमाणविरुद्धार्थप्रतिपादकलेनाप्रामाण्यस्य व्यवस्थापयिष्यमाणत्वात् , कथं तत्प्रणेतृणामपि सर्वज्ञलसिद्विः। यच्चान्यदभिहितम्। न कश्चित्सर्वज्ञप्रतिपादकः सम्यग् हेतुः संभवति। तदप्यसङ्गतम् । तत्प्रतिपादकस्य सम्यग्हेतोर्वचनविशेषत्वादेः प्रतिपादयिष्यमाणत्वात्। यच्चान्यदभिहितम्। सर्वे पदार्थाः कस्यचित्प्रत्यक्षाः प्रमेयत्वादग्न्यादिवदित्यत्र यदि सकलपदार्थग्राहिप्रत्यक्षवं साध्यमित्यादि। तदप्यसङ्गतम् । एवं साध्यविकल्पनेऽग्न्यादेरप्यनुमानान्न सिद्धिः स्यात् । तथाहि । अत्राप्येवं वक्तुं शक्यते। यदि प्रतिनियतसाध्यधर्मो वह्निः साध्यवेनाभिप्रेतस्तदा तद्विरुद्धेन दृष्टान्तधर्मिणि तद्धर्मि