________________
१३२
सम्मतिताख्यप्रकरणस्यउक्तं चान्येन. "खगृहान्निर्गतो भूयो न तदाऽऽगन्तुमर्हति”।
अतः किञ्चिद् दृष्ट्वा कस्यचिदवगमे निमित्तं कल्पनीयम् । तच्च नियतसाहचर्यमविनाभावशब्दवाच्यं नैयायिकादिभिः परिकल्पितम्। तदवगमश्च प्रत्यक्षानुपलम्भसहायमानसप्रत्यक्षतः प्रतीयते।सामान्यद्वारेण प्रतिबन्धावगमाद्देशादिव्यभिचारो न बाधकः। नापि व्यक्त्यानन्त्यम् । उभयत्रापि सामान्यस्यैकत्वात् । सामान्याकृष्टाशेषव्यक्तिप्रतिभानं च मानसे प्रत्यक्षे; यथा शतसङ्ख्याऽवच्छेदेन शतमितिप्रत्यये विशेषणाकृष्टानां पूर्वगृहीतानां शतसङ्ख्याविषयपदार्थानाम् । तथाहि । एते शतमिति प्रत्ययो भवत्येव ।सामान्यस्य च सत्त्वमनुगताबाधितप्रत्ययविषयत्वेन व्यवस्थापितम्, तदेवं नियतसाहचर्यमर्थमर्थान्तरं प्रतिपादयदुपलब्धं सत्प्रतिपादयति। उपलम्भश्वावश्यं क्वचित् स्थितस्य, सैव पक्षधर्मता।ततः सम्बन्धानुस्मृतौ ततः साध्यावगमः। यस्तु प्रतिबन्धं नोपैति, तस्यापि कथं न सर्वस्मात् सर्वप्रतिपत्तिः। अभ्युपगमे चाप्रतिपन्नेऽपि संबन्धे प्रतिपत्तिप्रसङ्गः। प्रमातृसंस्कारकारकाणां पूर्वदर्शनानामभावादित्यनुत्तरम् । संबन्धाप्रतिपत्तौ प्रमातृसंस्कारानुपपत्तेः । दर्शनजः संस्कारोऽप्यनभिव्यक्तः सत्तामात्रेण न प्रतिपत्त्युपयोगी । नच स्मृतिमन्तरेण तत्सद्भावोऽपि । न चानुभवप्रध्वंसनिबन्धना स्मृतिः । क्वचिद्विषये संस्कारमन्तरेण तदनुपपत्तेः । प्रध्वंसस्य च निर्हेतुकतासंभवात् । यत्राप्यभ्यस्ते विषये वस्त्वन्तरदर्शनादव्यवधानेन वस्त्वन्तरप्रतिपत्तिः, तत्रापि प्राक्तनक्रमाश्रयणेन वस्त्वन्तरावगमः । इयांस्तु विशेषः । एकत्रानभ्यस्तत्वादन्तराले स्मृतिसंवेदनम् ; अन्यत्राभ्यासाद्विद्यमानाया अप्यसंवित्तिः । केचित्तु योगिप्रत्यक्ष संबन्धग्राहकमाहुः । व्याप्तेः सकलाक्षेपेणावगमात् । तथाच यत्रयोति देशकालविक्षिप्तानां व्यक्तीनामनवभासेऽनुपपत्तिः । अत एकत्र क्षणे योगित्वं प्रतिबन्धग्राहिणः; एतत्पूर्वस्मादविशिष्टम्, तल्लोके अर्थान्तरदर्शनात् । अर्थान्तरसुदृढप्रतीतौ तार्किकाणां निमित्तचिन्तायां पक्षधर्मत्वाद्यभिधानम् ; अतो न तान्त्रिकलक्षणप्रतिक्षेपोऽपि । उत्पन्नप्रतीतीनामस्तु प्रामाण्यम् । उत्पाद्यप्रतीतीनां तु अतीन्द्रियादृष्टपरलोकसर्वज्ञाद्यनुमानानां प्रतिक्षेप इति चेत् । तदसत् । यद्यनवगत