________________
तत्त्वबोधविधायिनी व्याख्या । अतो ज्योतिःशास्त्रं ग्रहोपरागादिकमिव धर्माधर्मावपि प्रमाणान्तरसंवादतोऽ. वगमयति। तेन ग्रहोपरागादिवचनविशेषस्य धर्माधर्मसाक्षात्कारिज्ञानपूर्वकत्वमपि सिद्धम् ; तत्सिद्धौ सकलपदार्थसाक्षात्कारिज्ञानपूर्वकत्वमपि सिद्धिमासादयति। नहि धर्माधर्मयोः सुखदुःखकारणत्वसाक्षात्करणं सहकारिकारणाशेषपदार्थतदाधारभूतसमस्तप्राणिगणसाक्षात्करणमन्तरेण संभवति । सर्वपदार्थानां परस्परप्रतिबन्धादेकपदार्थसर्वधर्मप्रतिपत्तिश्च सकलपदार्थप्रतिपत्तिनान्तरीयका प्राक् प्रतिपादिता । अतो भवति सकलपदार्थसाक्षात्कारिज्ञानपूर्वकत्वसिद्धिरतो हेतोर्वचनविशेषस्य । तत्सिद्धौ च तत्प्रणेतुः सूक्ष्मान्तरितदूरानन्तार्थसाक्षात्कार्यतीन्द्रियज्ञानसम्पत्समन्वितस्य कथं न सिद्धिः । नाप्येतद्वक्तव्यम् । साध्योक्तितदावृत्तिवचनयोरनभिधानात् न्यूनतानामाऽत्र साधनदोषः। प्रतिज्ञावचनेन प्रयोजनाभावात् । अथ विषयनिर्देशार्थ प्रतिज्ञावचनम् । ननु स एव किमर्थः। साधर्म्यवत्प्रयोगादिप्रतिपत्त्यर्थः । तथाहि । असति साध्यनिर्देशे यो वचनविशेषः स साक्षात्कारिज्ञानपूर्वक इत्युक्ते किमयं साधर्म्यवान् प्रयोगः, उत वैधर्म्यवानिति न ज्ञायेत । उभयं ह्यत्राशङ्क्येत। वचनविशेषत्वेन साक्षात्कारिज्ञानपूर्वकत्वे साध्ये साधर्म्यवान् , असाक्षात्कारिज्ञानपूर्वकत्वे वचनाविशेषत्वे साध्ये वैधर्म्यवानिति हेतुविरुद्धानैका- . न्तिकप्रतीतिश्च न स्यात्।प्रतिज्ञापूर्वके तुप्रयोगे शब्दविशेषः साक्षात्कारिज्ञानपूर्वकः शब्दविशेषत्वादिति हेतुभावः प्रतीयते । असाक्षात्कारिज्ञानपूर्वको वचनविशेषत्वादिति विरुद्धता। चक्षुरादिकरणजनितज्ञानपूर्वको वचनविशेषत्वादित्यनैकान्तिकत्वम् । हेतोश्च त्रैरूप्यं न गम्येत । तस्य साध्यापेक्षया व्यवस्थितेः। सति प्रतिज्ञानि. देशेऽवयवे समुदायोपचारात साध्यधर्मी इति पक्ष इति तत्र प्रवृत्तस्य वचनविशेषत्वस्य पक्षधर्मत्वम् ; साध्यधर्मसामान्येन च समानोऽर्थः सपक्ष इति तत्र वर्तमानस्य सपक्षे सत्त्वम् ; न सपक्षोऽसपक्ष इत्यसपक्षेऽप्यसत्त्वं प्रतीयते । तदिदमनालोचिताभिधानम् । तथाहि । यो वचनविशेषः स साक्षात्कारिज्ञानपूर्वक इति एतावन्मात्रमभिधाय नैव कश्चिदास्ते, किन्तु हेतोर्धर्मिण्युपसंहारं करोति। तत्र यदि वचनविशेषवायं नष्टमुष्ट्यादिविषयो वचनसंदर्भ इति ब्रूयात्, तदा साधर्म्यवत्प्रयोगप्रतीतिः। अथासाक्षात्कारिज्ञानपूर्वकश्चेत्यभिध्यात, तदा वैधर्म्यवत इति संबन्धवचनपूर्व