SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来老 ___ आप्तमीमांसा. ****क wwvouuuuwww * a tttitatistkkkkkkkkkkkkkkkkkkkkkkkkkkttttti तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् ॥ १०१॥ उपेक्षाफलमाद्यस्य शेषः स्यादानहानधीः । पूर्वा वा ज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥ १०२॥ वाक्येष्वनेकान्तद्योति गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तव केवलिनामपि ॥ १०३ ॥ स्याद्वादः सर्वथैकान्तत्यागात्किं वृत्तविद्विधिः । सप्तभङ्गनयापेक्षो हेयादेयविशेषकः ॥ १०४ ॥ स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्च द्यवस्त्वन्यतमं भवेत् ॥ १०५ ॥ सधर्मेणैव साध्यस्य साधादविरोधतः । स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः ॥ १०६ ॥ नयोपनयैकान्तानां त्रिकालानां समुच्चयः ।। अविष्वग्भावसम्बन्धो द्रव्यभेकमनेकधा ॥ १०७ ॥ मिथ्यासमूहो मिथ्याचेन्न मिथ्यैकान्ततास्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेतोऽर्थकृत् ॥१०॥ नियम्यतेऽर्थो वाक्येन विधिना बारणेन वा । तथान्यथा च सोऽवश्यमविशेष्यत्वमन्यथा ॥ १०९ ॥ तदतद्वस्तुवागेषा तदेवेत्यनुशासती । न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना ॥११०॥ वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरङ्कुशः । आह च स्वार्थसामान्यं तादृग्वाच्यं खपुष्पवत् ॥ १११॥ *PARIPATRAPATRITIATIRHARP 求求求求求求求求求求求求求求求求求求求求求求求求求求求求求本志杰克来来来来来来来来来来来来来来来来来来来来来来 s
SR No.022460
Book TitleAapt Mimansa
Original Sutra AuthorN/A
AuthorLalaram Digambariya Jain
PublisherJain Granthratna Karyalay
Publication Year1904
Total Pages32
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy