________________
(४) द्रव्यपर्यायभेदेना नेकभेदसमन्विता । सत्पदार्थो समाख्यातो, कृत्स्नभावप्रकाशिभिः ॥५॥ धर्माधर्मनभो जीव-पुद्गलानेहसस्तथा। द्रव्याणि गुणपर्याय-वत्त्वं तत्त्वमुदाहृतम् ॥ ६ ॥ गत्युपकारकोऽसङ्ख्य-प्रदेशोऽरूपिनिष्क्रियः । एकद्रव्यं समाख्यातो, धर्मो धर्मोपदर्शिभिः ॥ ७॥ तथैवाधर्म आदिष्टः, परं स्थित्युपकारकः । अवगाहद आकाशो- वस्तुनामवगाहिनाम् ॥८॥ अनन्तोऽयं प्रदेशैश्च, लोकालोकविभागभाक्। तदसङ्ख्येयभागादि-स्वात्मनामवगाहना ॥ ९ ॥ आसमस्तलाकात् सा-ऽजीवानान्त्ववगाहना। मूतामृतप्रभेदेन, द्विविधाद्यावगाहना ॥ १० ॥ एकप्रदेशमुख्येष्व-प्युक्तान्या तत्र सर्वतः। प्रदेशानां हि संहार-विसर्गों स्तः प्रदीपवत् ॥ ११॥