________________
॥ अहम् ॥ । श्री परमात्मने नमः ॥
॥ श्री गौतमस्वामिने नमः ॥ ॥ आचार्य श्रीविजयनेमिसरिभगवद्भयो नमः ॥
॥ श्री जैनमुक्तावली॥
प्रणमामि महावीरं, चरमं तीर्थनायकम् । सच्चिदानन्दसम्पूर्ण, भव्याभोष्टार्थदायकम् ॥ १॥ वन्दे श्रीगौतमं देवं, देवतासङ्घसेवितम् । निःशेषलब्धिसम्पन्नं, प्रथमं गणनायकम् ॥ २ ॥ श्रीमच्छ्रमणसङ्घस्या-धोश्वर योगशालिनम्। परमप्रौढसाम्राज्यं. नेमिसूरि प्रणामि तम् ॥३॥ सूरेभगवतस्तस्य, पादसेवानुभावतः । "जैनमुक्तावली” काचिद्, विधियाऽपि विरच्यते॥४॥