________________
(१४)
अनन्तानन्दपूर्णस्य, मोक्षस्य कारणं परम् । जैनेन्द्रशासने सम्यकू-श्रद्धान जायते भृशम् ॥८४॥ ततः प्रपञ्चं विज्ञाय, संसारस्य सुदुस्तरम् । . महामोहस्य विस्तारं, सर्वव्यसनकारणम् ॥ ८५॥ ज्ञाततत्त्वा नरा भूत्वा, श्रद्धाक्षालितचेतसः। जिनाज्ञां पालयित्वा च, पारम्पर्येण मोक्षगाः ।। ८६ ॥ सेवा तिष्ठतु ते नाथ, दर्शनं पुण्यकारकम् । केषां सम्पत्तये न स्या-दीक्षणं चाषपक्षिणः ।। ८७ ॥ सद्भत्त्या भजताजस्रं, यूयं भव्याः कृतादराः। आचार्य नेमिसूरीशं, यदि भाग्यभरालसाः ।। ८८ ॥ ज्ञानप्रकाशसूर्या या-ज्ञानध्वांतविनाशिने । करुणानां निधानाय, नमः श्रीनेमिसूरये ॥ ८९ ॥ विबुधैः कृतसेवाय, महामेरूपमाय च। माध्यस्थ्यशालिने तस्मै, नमः श्रीनेमिसूरये ॥ ९० ॥ निर्मलीमसचित्ताय, रागसन्तापहारिणे । विश्वोपकारदक्षाय, नमः श्रीनेमिसूरये ॥ ९१ ॥