________________
पापपुञ्जोत्पादितश्च, तावत्तापोऽत्र देहिनाम् । यावत्तषां न नाथ त्वं, सदानन्दो हृदि स्थितः ॥२१॥ प्रहताशेषसंसार-विस्तारो मुनिशेखर । घोरसंसारकान्तार-सार्थवाहस्त्वमेव च ॥ २२ ।। नाथ त्वां चोररीकृत्य शङ्कारहितचेतसः । लभन्ते भूरि कल्याणं, निर्विकारत्वमागताः ॥२३॥ त्वं हि दीक्षां समादाय, निर्मलीकृतमानसः । सन्तोषसेवितो धन्यो-जातो धन्यावतंसकः ॥२४॥ सर्वशास्त्रेषु नैपुण्य-मादधत्वं महोदयः। गुरूणां पूज्यपादानां, भक्तिप्रवणतान्वितः ।। २५ ॥ त्वमेव चाधुना नाथ, संसारे सुख कामिभिः । आदेयोऽसि प्रयत्नेना-शेषसम्पद्विधायकः ॥२६॥ निपतन्तो महाघोरे, सत्त्वा नरककूपके । अहिंसाहस्तदानेन, त्वया नाथ समुध्धृताः ॥ २७ ।। मैत्र्यादिभिश्चतुर्भेद, यचाज्ञादिचतुर्विधम् ।। ध्यान तत्सर्वदा नाथा-वस्थितं चेतसि तव ।।२८ ॥