________________
नैयायिकमतम् ।
CO
शब्दः प्रयाबेन व्यज्यते जन्यते वेति संशय इति। संशयापादनप्रकारभेदाच्च संशयसमातः कार्यसमा जातिर्भिद्यते ॥ २४ ॥ - तदेवमुद्भावनविषयविकल्पभेदेन जातौनामानन्ये ऽप्यमंकीणेदाहरणविवक्षया चतुर्विंशतिर्जातिभेदा एते प्रदर्शिताः । । प्रतिसमाधानं तु सर्वजातीनां पक्षधर्मत्वाद्यनुमानलक्षणपरीक्षालक्षणमेव । न ह्यविलुतलक्षणे हेतावेवं पाशुपाताः प्रभवन्ति । कृतकत्वप्रयत्नानन्तरौयकत्वयोश्च दृढकृतप्रतिबन्धात् नावरणदिकृतं शब्दानुपलम्भनमपि बनित्यसकतमेव । जातिप्रयोगे च परेण कृते सम्यगुत्तरमेव वक्रव्यम्, न तु प्रतीपं जात्युत्तरे- 10
व प्रत्यवस्थेयमासमंजस्य प्रमङ्गादिति ॥ . .. ..... अथ नियहस्थानमाह।
निग्रहख्यानमाख्यातं परो येन निगृह्यते। । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदतः॥ ३२॥
येन केनचित्प्रतिज्ञाहान्याधुपरोधेन परो विपक्षो निग्टह्यते 15 परवादी वचननिग्रहे पात्यते तविग्रहस्थानम् । निग्रहः पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः । श्राख्यातं कथितम् । कुतो नामभेदत इत्याह । प्रतिज्ञाहानौत्यादि। हानिस्यागः, मंन्यासो ऽपहवनं, विरोधो हेतोविरुद्धता । तेषां इन्हे हेतुसंन्यास विरोधाः । ततः प्रतिज्ञाशब्देनेत्यं सम्बन्धः, प्रतिज्ञायाः 20 पक्षस्य हानिसंन्यासविरोधाः प्रतिज्ञाहानिसंन्यामविरोधास्ते ।