________________
[प्रस्तावना]
२
मनेनैवेदं नाभिदधे अमुकममुकं दर्शनं हेयममुकं चोपादेयमिति चेत् । उच्यते । इह सर्वदर्शनान्यभिधेयतया प्रक्रान्तानि, तानि माध्यस्थ्येनैवाभिदधानोऽचौचितौं नातिकामति । इदमिदं हेयमिदं चोपादेयमिति ब्रुवाणस्तु प्रत्युत मतां सर्वदर्शनानां चानादेयवचनो वचनीयतामञ्चति ॥ नन्वेवं तस्याचार्यस्य न 5 परोपकारार्थी प्रवृत्तिः । कुत एवं भाषसे । नन्वेष दर्शयामि । ये केचन मादृशाः श्रोतारः स्वयमल्पबुद्धित्वेन हेयोपादेयदर्शनानां विभागं न जानौयुस्तेषां सर्वदर्शनमतत्त्वं निशम्य प्रत्युतैवं बुद्धिर्भवेत् । सर्वदर्शनानि तावन्मियो विरुद्धाभिधायौनि। तेषु च कतरत्परमार्थमदिति न परिच्छिद्यते । 10 तत्किमेतैर्दर्शनैर्दुर्जानैः प्रयोजनम् । यदेव हि स्वस्मै रोचते तदेवानुष्ठेयमिति। एवंविधाश्चाविभागज्ञा अस्मिन्काले भूयामोऽनुभूयन्ते। तदेवं शास्त्रकारस्य सूररुपकाराय प्रवृत्तस्य प्रत्युत प्रभूतानामपकारायापि प्रवृत्तिः प्रबभूव, ततश्च लाभमिच्छतो मूलहानिरजनिष्टेति चेत् । न, शास्त्रकारात्मर्वोप- 15 कारायैव प्रवृत्तात्कस्याप्यपकारामिद्धेः, विशेषणद्वारेण हेयोपादेयविभागस्यापि कतिपयमहृदयहृदयसंवेद्यस्य संसूचनात् । तथाहि । मद्दर्शनं जिनं नत्वा । मद्विद्यमाने सत्ये च प्रशस्तार्चितमाधुश्वित्यनेकार्थनाममालावचनात् । मत्सत्यं न पुनरसत्यं दर्शनं मतं यस्य तम्। जिनमिति विशेष्यम् । 20 चतुर्विंशतेरपि जिनानामेकतरं रागादिशत्रुजयात्मान्वयनामानं जिनं वीतरागं नत्वा। एतेन पददयेन चतविधतेरपि जिनाना