________________
घड्दर्शनसमुच्चयः सटोकन
कारणात्कार्यमस्तौति ज्ञानमिहानुमानप्रस्ताव उदितं प्रोक्तम् । पाठदयेऽप्यत्र यलिङ्गिज्ञानमनुमानशब्देनोचे, तद्वितीयव्याख्यानकारिणां मतेन, न तु प्रथमव्याख्यानकर्टमतेन। प्रथमव्याख्याकारिमतेन हि ज्ञानस्य हेतुरेवानुमानशब्दवाच्यः स्यात्। एवं 5 शेषवत्यपि ज्ञेयम् । यत्र कारणत्वज्ञानविशिष्टात्कार्यस्थ ज्ञानं
भवति, तत्पूर्ववदनुमानम् । अत्र ह्योपलब्धिहेतः प्रमाणमिति वचनात्कार्यज्ञानमनुमानस्य फलं, तद्धेतस्खनुमानं प्रमाणम् । तेनात्र कारणं वा तज्ञानं वा कार्यकारणप्रतिबन्धस्मरणं वा कार्य ज्ञापयत्पूर्ववदनुमानमिति ॥
तस्योदाहरणमाह।
यथा। 10 रोलम्बगवलव्यालतमालमलिनत्विषः।
दृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः॥२०॥. यथेति निदर्शनदर्शनार्थः। रोलम्बा भ्रमराः, गवला अरण्यजातमहिषाः, व्याला दुष्टगजा मर्पश्च, तमालास्तापि
वृक्षाः। तदन्मलिनाः श्यामलास्विषः कान्तयो येषां ते IB तथा। एतेन मेघानां कान्तिमत्ता वचनेनानिर्वचनीया काप्यतिप्रयश्यामता व्यज्यते । एवंप्रायाः । एवंशब्द इदंप्रकारवचनः । प्रायशब्दो बाहुल्यवाचकः। तत एवमिदंप्रकाराणं प्रायो बाहुल्यं येषु त एवंप्राया ईदृक्प्रकारबाहुल्या इत्यर्थः । एतेन
गम्भीरगर्जितत्वाचिरप्रभावत्वादिप्रकाराणां बाहुल्यं मेघेषु सत्म20 चितम् । उनविशेषणविशिष्टा मेघा दह जने दृष्टिं न व्यभि