________________
नैयायिकमतम्।
सर्वदाप्रत्यक्षत्वेन साध्येन हेतोः कथं व्याप्तिग्रहणमिति चेत्। उच्यते। धर्मिण इच्छादेः प्रत्यक्षप्रतिपन्नत्वं गुणत्वकार्यत्वादेरपि साधनस्य तद्धमत्वं प्रतिपत्रमेव। पारतव्येण च स्वसाध्येन तस्य व्याप्तिरध्यक्षतो रूपादिग्ववगतैव । साध्यव्यावृत्त्या साधनव्यावृत्तिरपि प्रमाणान्तरादेवावगता । नन्वेवं पूर्ववच्छेषवत्मामान्यतोदृष्टानां परस्परतः । को विशेषः । उच्यते । इच्छादेः पारतन्व्यमात्रप्रतियत्तौ गुणत्वं कार्यत्वं वा पूर्ववत् । तदेवाश्रयान्तरबाधया विशिष्टाश्रयत्वेन बाधकेन प्रमाणेनावमौयमानं शेषवतः फलम् । तस्य माध्यधर्मस्य धर्म्यन्तरे प्रत्यक्षस्यापि तत्र धर्मिणि सर्वदाप्रत्यक्षत्वं सामान्यतोदृष्टव्यपदेशनिबन्धनम् । अतस्त्रयाणामेकमेवोदाहरणम् । तदेवं 10 कारणदिवैविध्यात्रिप्रकारं लिङ्गं प्रमितिं जनयत्तत्पूर्वकं मदनुमानमिति द्वितीयं व्याख्यानम् । अत्र व्याख्याइये प्रथमव्याख्यानमेव बहनामध्ययनप्रभृतौनामभिमतम् । तत्र च पूर्वबदादौनां व्याख्या द्वितीयव्याख्याने या चतुःप्रकाराभिहिता सेव द्रष्टव्येति । ...
- 15 ... अथ शास्त्रकार एव बालानामसंमोहार्थं शेषव्याख्याप्रकारानुपेक्ष्यानुमानस्य त्रिविधस्य विषयज्ञापनाय पूर्ववदादीनि पदानि व्याख्यानयवाह "तत्राद्यम्” इत्यादि । तत्र तेषु पूर्ववदादिषु, श्राद्यं पूर्ववदनुमानं किमित्याह । कारणालिङ्गात्कायस्य लिङ्गिनोऽनुमानं ज्ञानं कार्यानुमानम्। दहानुमानप्रस्तावे, 20 गौयते प्रोच्यते । कारणात्कार्यमनुमानमिहोदिवमिति पाठो वा । तवास्तौति-शब्दाध्याहारे कारणत्कार्यमस्तीत्यनुमानम् ।