________________
. बौद्धमतम् ।
कल्पना यथा गौरिति । श्रादिशब्दागुणक्रियाद्रव्यपरिग्रहः । तत्र गुणकल्पना यथा शुक्ल इति । क्रियाकल्पना यथा पाचक इति । द्रव्यकल्पना यथा दण्डौ भूस्थो वेति । श्राभिः कल्पनाभी रहितं शब्दरहितखलक्षणजन्मत्वात्प्रत्यक्षस्य । उक्तं च । न ह्यर्थ शब्दाः सन्ति तदात्मानो वा, येन तस्मिन् प्रतिभा- 5 समाने प्रतिभासेरनित्यादि। एतेन स्थिरस्थलघटपटादिबाह्यवस्तुग्राहिण: सविकल्पकज्ञानस्य प्रत्यक्षतां निरस्यति । पुनः कौदृवं प्रत्यक्षम्। अभ्रान्तम् । अतस्मिंस्तद्हो भ्रान्तिरिति वचनात् । नासद्भूतवस्तुग्राहकं, किं तु यथावत्परस्परविविक्रक्षणक्षथिपरमाणुलक्षणखलक्षणपरिच्छेदकम् । अनेन निर्वि- 10 कन्यकानां भ्रान्ततैमिरिकादिज्ञानानां प्रत्यक्षतां प्रतिक्षिपति ॥ इदं च चतुर्धा । इन्द्रियज्ञानं, मानसं, स्वसंवेदनं, योगिज्ञानं च ॥ तत्र चक्षुरादौन्द्रियपञ्चकाश्रयेणोत्पन्न बाह्यरूपादिपञ्चविषयालम्बनं ज्ञानमिन्द्रियप्रत्यक्षम् ॥ खविषयानन्तरं विषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययसंज्ञकेन जनितं मनो- 15 विज्ञानं मानसम् । स्वविषयस्य घटादेरिन्द्रियज्ञानविषयस्यानन्तरो विषयो द्वितीयः क्षणः, तेन सहकारिणा मह मिलित्वा . इन्द्रियज्ञानेनोपादानेन समनन्तरप्रत्ययसंज्ञकेन यज्जनितं मनोविज्ञानं तन्मानसम् । समनन्तरप्रत्ययविशेषणेन योगिज्ञानस्य मानमत्वप्रसङ्गो निरस्तः । समनन्तरप्रत्ययशब्द: 20 वसंतानवर्तिन्युपादाने ज्ञाने रूच्या प्रसिद्धः। ततो भिन्नसंतानवतियोगिज्ञानमपेक्ष्य पृथगजनचित्तानां समनन्तरव्यप