________________
बौद्धमतम् ।
प्रमाणदयातिरिक्तविषयतयाभ्युपगम्यमानं प्रमाणान्तरमिति कारणानुपलब्धिः, प्रमेयस्य साक्षात्पारंपर्यण वा प्रमाणं प्रति कारणत्वात् । तदुक्तम् । “नाननुकृतान्वयव्यतिरेकं कारणं नाकारणं विषयः” इति। प्रत्यक्षपरोक्षातिरिक्तं प्रमेयान्तरं नास्तौति चाध्यक्षेणैव प्रतिपाद्यते । अध्यक्ष हि पुरःस्थितार्थ- 5 सामर्थ्यादुपजायमानं तद्गतात्मनियतप्रतिभासावभामादेव तस्थार्थस्य प्रत्यक्षव्यवहारकारणं भवति। तदन्यात्मनां च तस्य व्यवच्छिन्दानमन्यत्परोक्षमर्थजातं सकलं राश्यन्तरत्वेन व्यवस्थापयत्तृतीयप्रकाराभावं च साधयति, अध्यक्षेणाप्रतीयमानस्य सकलस्थार्थजातस्थान्यत्वेन परोक्षतया व्यवस्थापनात् । अन्यथा 10 तस्य तदन्यार्थरूपताव्यवच्छेदै खौयरूपतयापि परिच्छेदो न भवेदिति न किंचित्प्रत्यक्षेणावगतं भवेत् । प्रतिनियतस्वरूपता हि भावानां प्रमाणतो व्यवस्थिता । अन्यथा सर्वस्य सर्वथोपलम्भादिप्रसङ्गतः प्रतिनियतव्यवहारोच्छेदप्रसक्तिर्भवेत् । प्रतिनियतस्वरूपता चेन्न प्रत्यक्षावगता किमन्यद्रूपं तेन 15 तस्यावगतमिति पदार्थस्वरूपावभासिनाध्यक्षेण प्रमेयान्तराभावः प्रतिपादित एव । अनुमानतो ऽपि तदभावः प्रतीयत एव, अन्योन्यव्यवच्छेदरूपाणमितरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थापनात् । प्रयोगश्चात्र । यत्र यत्प्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्था, न तत्र प्रकारान्तरसंभवः । तद्यथा पौतादौ 20 नौलपकारव्यवच्छेदेनानीलप्रकारव्यवस्थायाम् । असि च प्रत्यक्षपरोक्षवोरन्यतरप्रकारव्यवच्छेदेनेतरप्रकारव्यवस्था व्यवच्छिद्य