________________
बौद्धमतम् ।
खविषयोपदर्शके च प्रत्यक्षानुमाने एव, न ज्ञानान्तरम् । अतस्ते एव लक्षणहै, तयोश्च दयोरप्यविसंवादकत्वमस्ति लक्षणम्। प्रत्यक्षेण यर्थक्रियासाधकं वस्तु दृष्टतयावगतं सत्प्रदर्शितं भवति, अनुमानेन तु दृष्टलिङ्गाव्यभिचारितयाध्यवमितं मत्प्रदर्शितं भवतीत्यनयोः स्खविषयप्रदर्शकत्वमेव । प्रापकत्वम् । यद्यपि च प्रत्यक्षस्य क्षणो ग्राह्यः स च निवृत्तवान प्राप्यते, तथापि तत्संतानो ऽध्यवसेयः । प्रवृत्तौ प्राप्यत इति, संतानविषयं प्रदर्भितार्थप्रापकत्वमध्यक्षस्य प्रामाण्यम्। अनुमानस्य तु लिङ्गदर्शने विकल्यः स्वाकारो ग्राह्यो न बायो ऽर्थः। प्राप्यस्तु बाह्यः । खाकाराभेदेनाध्यवसित इति । 10 तद्विषयमस्यापि प्रदर्भितार्थप्रापकत्वं प्रामाण्यम्। तदुक्तम् . "न ह्याभामर्थ परिच्छिद्य प्रवर्तमानो ऽर्थक्रियायां विसंवाद्यते" इति। प्राप्यमाणं च वस्तु नियतदेशकालाकारं प्राप्यत इति तथाभृतवस्तुप्रदर्शकयोः प्रत्यक्षानुमानयोरेव प्रामाण्यं, न ज्ञानान्तरस्य । तेन पौतगङ्खादिग्राहिज्ञानानामपि प्रापकत्वा- 15 प्रामाण्यप्रमतिर्न भवति, तेषां प्रदर्शितार्थाप्रापकत्वात् । यद्देशकालाकारं हि वस्तु तैः प्रदर्शितं, न तत्तथा प्राप्यते । यच्च यथा प्राप्यते, न तैस्तत्तथा प्रदर्शितं, देशादिभेदेन वस्तुभेदस्य निश्चितत्वादिति न तेषां प्रदर्शितार्थप्रापकता। ततो न प्रामाण्यमपि ॥ नापि प्रमाणद्वयव्यतिरिक्त शब्दादिकं 20 प्रदर्भितार्थाप्रापकत्वेन प्रमाणं, तत्प्रदर्शितस्य देशाद्यनियतस्थार्थस्यासत्त्वेन प्राप्तुमशक्तः । तत्प्रदर्भितार्थस्थानियतत्वं च